________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोड़पत्राणि ।
पनेतु इस्तेन उपाकर्मापरालिकम्" इति सिंहे रवी पुर्ने उत्सर्गमभिधाय हस्तेनोपाकरणमभिदधानएतदेवाह । अस्मादचनादस्माकमुपाकरणे अपरालः कालः स्यात् । “अध्यायानामुपाकर्म कुर्यात् कालेऽपराहके । पूर्वाह्ने तु विसर्गः स्यादिति वेदविदोविदुः” इति परिशिष्टवचनाच्चैतदेवं प्रतिपत्तव्यम्। गोभिलस्यैतदिति हेमाद्रिः । यदा पुनः सिंहस्थे सूर्ये शक्लपचे योहस्तः तस्मात् प्राचीनः पुष्यः कर्कटस्थे रवौ भवति, तदा तत्रैव पुष्ये उत्सर्ग: करणीयः । कुतः ? । “मासे प्रौष्ठपदे हस्तात् पुष्यः पूर्वाभवेद् यदा। तदा तु श्रावणे कुर्य्यादुसर्ग छन्दस दिजः" इति परिशिटोकः । तथा प्रौष्ठपदे इस्तस्य दुष्टत्वे तत्रोपाकरणं निषेधति चतुर्वर्गचिन्तामणौ स्मृतिः । “उपाकर्म न कुर्वन्ति क्रमात् सामर्यजुर्विदः । ग्रहसंक्रान्तियुक्तषु हस्तश्रवणपर्वसु" इति। तदेवम्भूतस्यले श्रावणएव हस्ते उपाकरणं कर्त्तव्यं भवति । “वहचाः श्रवणे चैव इस्तः सामवेदिनः" इति परिशिष्टवचनात। श्रावणे हि वहृचाः श्रवणेनोपाकुर्वन्ति । गोभिलस्यैतदिति निर्णयामृतकारः । “धनिष्ठाप्रतिपयुक्तं त्वाष्ट्रऋक्षसमन्वितम् । श्रावणं कर्मकुर्बोरन् ऋगयजु:मामपाठकाः" इति परिशिष्टवचनान्तरेपि श्रावणं कर्मेति समाख्यया तथाऽवगम्यते । विशेषमाहतुद्धमनुकात्यायनी । “अर्द्धराबादधस्ताच्चेत् संक्रान्तिग्रहणं तदा । उपाकर्म न कुर्वीत परतश्चेन्न दोषकत्" इति।
तस्मादियमेवावधारणा,-प्रौष्ठपदी इस्तेनोपकृत्य देवपाणिगेयगानादीनि तावदधीयीत यावत् अब्दान्तरे प्रौष्ठपदे तिय्यः भवति। उदगयने चोपाकृत्योत्तरारण्यकादिकं यावत् षण्मासानधीयीत । ततः
For Private and Personal Use Only