________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8 का.
श्राद्धकल्पः।
१०५३
इति कात्यायनोकाएव मातरः पूजितव्याभवन्ति । एतदविद्वांसएव वडचण्टापरिशिष्टाकानां माढणं पूजनं वदन्ति । तदेतद्वचनं परिशिष्टग्रन्थेषु दृश्यते। मदनपारिजातादावपि कात्यायनीयमिति कृत्वैवैतलिखितम्। परन्तु, "गणेशेनाधिकाः” इत्यर्द्धं तत्र नास्ति । तस्मात् , तदुक्तमात्र पजावत् तदुक्तपिण्डइयमप्यस्माकं न भवति । तथा भविष्ये।
"पिण्डनिर्वपणं कुन्निवा कुर्यादिचक्षणः ।
वृद्धिश्राद्धे महावाहो ! कुलधर्माद्यवेक्ष्य तु" । इति । "पिण्डनिळपणमित्युपलक्षणम्, अतोयत्कुले यावती इतिकर्त्तव्यता वृद्धिश्राद्धे तावत्येव कर्त्तव्या, नाधिका” इति मदनपारिजातः। गोभिलादयः खल्वस्माकं कुलधीपदेशगुरवः, इत्यवोचाम। गौड़ास्तु प्रत्येकमग्रंपात्रादिकं किञ्चित् युग्मं पिण्डादिकञ्च किञ्चिदयुग्ममित्यर्द्धजरतीयं कुर्वन्ति ॥ १० ॥ एवन्तावत् सर्वोऽपि श्राद्धविधिरभिहितः। तत्र विशेषाभिधित्मयोत्तरोग्रन्थः प्रववृते,
श्राडान्वितः श्राद्धं कुर्वीत ॥ ११ ॥ श्रद्धा,
"प्रत्ययो धर्मकार्येषु सदा श्रद्धेत्युदाहृता"। इत्युनलक्षण । तया अन्वितायुक्तः सन् श्राद्धं कुर्चीत । न लोकाचारमात्रबुड्या । न च नास्तिक्यमाश्रित्य न कुर्वीत । स्मरन्ति च ।
"उच्छास्त्रवर्त्तिनोये च पापोपहतबुद्धयः ।
For Private and Personal Use Only