SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 8 का.] श्रादकल्पः। १०५१ दिकम् प्रयोगमभ्युपगच्छन्नपि, अस्तु खधेतिवत् अस्तु प्रीयन्तामिति प्रत्युत्तरं नाभ्युपगच्छति, किन्तु प्रीयन्तामित्येतावन्मात्रम् । तदत्र भवन्तोभूमिदेवाः प्रमाणम् ॥ ८ ॥ न स्वधां प्रयुञ्जीत ॥ १० ॥ ऋजुरक्षरार्थः । सोऽयं चोदकप्राप्तस्वधानिषेधः । किं पुनरत्र त्यागवाक्यादी प्रयोक्तव्यं भवति?। 'स्वाहा'-इति ब्रूमः। कथम् ? । स्वाहाच्यतामित्यत्र खधापदस्थाने वाहापददर्शनात् खधानिषेधे सर्वत्रैव वाहेत्येतदागच्छति हृदयम् । आगच्छति चेत्, न सुतरामुत्स्रष्टव्यम्। स्वाहाशब्दः खल्वसौ वधाशब्दस्याने प्रयुक्तः मर्च तत् प्रयोजनमभिनिवर्त्तयति। अभिनिवर्त्तयति चेत्, नूनमन्यत्राप्यभिनिवर्तयिष्यति । न च शब्दान्तरप्रयोगे प्रमाणं पश्यामः । रघुनन्दनस्वेतदबुद्धा, श्राद्धे स्वाहाशब्दप्रयोगे प्रमाणं नास्ति,-इत्याह! । यदपि, "मदा परिचरेनत्या पिढनप्यत्र देववत्"। इति च्छन्दोगपरिशिष्टवचनात् देवपक्षीयं नमएवायाति, इत्युक्तम् । तदप्ययुक्तम्। देववत्परिचरणमात्राभिधानेन मन्त्रस्य तदीयस्थाप्राप्तेः। इतरथा श्रावाइनादावण्यत्र देवपक्षोक्तएव मन्त्रः स्यात्। न चैवमिय्यते अतएव, "निपातो न हि सव्यस्य जानुनोविद्यते क्वचित्” । इति पूर्वार्द्धन भव्यजानुपातनिषेधाद्दक्षिणजानुपातादिकमुत्तरार्द्धनाभिधत्ते । अपि च । एवमपि, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy