________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३८
श्राद्धकल्पः ।
[३ का.]
एतेनैव पिण्डोव्याख्याताव्याख्यातः ॥ १७ ॥ एतेनार्थमिश्रणप्रकारेणेव पिण्डमिश्रणप्रकारोऽपि व्याख्यातोवेदितव्यः । एतदनेनोनं भवति । प्रेतपिण्डं त्रिधा विभज्य ये समाना इति मन्त्राभ्यां पिलपिण्डेषु मिश्रयेत्, इति । मन्त्रावृत्तिरुता। द्विवचनं प्रकरणसमाप्तिप्रज्ञापनार्थमादरार्थञ्च । तदत्र सपिण्डीकरणे बहुवक्तव्यमस्ति । तत्सर्वं छन्दोगपरिशिष्टादो जेयम् । ग्रन्थगौरवभयादुपारम्यतेऽस्माभिः । एतत्सूत्रान्तरम्,–“अतऊद्धं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यात्” इति सूत्रं रघुनन्दनः पठति । तदनाकरमित्युतम् ॥ १७॥
इति महामहोपाध्यायराधाकान्त सिद्धान्त वागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततीलङ्कारभट्टाचार्य्यस्य कृतौ श्राद्धकल्यभाव्ये हतीया काण्डिका समाप्ता ॥
For Private and Personal Use Only