SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राडकाल्पः। [३ का.] पूणे संवत्सरे षण्मासे विपक्षे वा ॥१२॥ पूर्ण संवत्मरे मृततिथावेव । कथं ज्ञायते? । "पितुः मपिण्डीकरणं वार्षिके मृतवासरे"। . इत्युशनसातः । यच, "ततः मपिण्डीकरणं वत्मरात् परतः स्थितम्" । इति भविष्यपुराणवचनम् । तत् , यस्यां तिथौ मृतस्तां तिथिमादाय वर्षगणनया बोध्यम्। प्राचार्य्यस्तु प्रायणतिथिमवधिंकृत्वा तत्परवर्तिनी तिथिमादाय वर्षगणनामभिप्रयन् 'पूर्णसंवत्सरे'-दूत्याह । एतदभिप्रायेणैव, "पितुः पितृत्वप्राप्यर्थं पूर्ण संवत्सरे सुतः । ताहात् परतः कुर्यात् सपिण्डीकरणं बुधः । इति वचनमुपपद्यते । कथं नाम ?। मृताहात् मरणदिनात् परत:परां तिथिमादाय वर्षगणनया संवत्सरे पूर्ण सपिण्डीकरणम्-इति । शूलपाणिस्वमुमर्थमबुद्धा विरोधभिया वचनमेतदनाकरमाह। षण्मासे, दूत्यपरः कालः एकवचनसंयोगादेकएवायं कालः । पूरणप्रत्ययश्चात्र लुप्तवत् द्रष्टव्यः । तेन षष्ठमासे इत्यर्थः सिद्धाभवति। अवापि मृततिथिरेवकालोबोद्धव्यः । त्रिपजे, इत्यन्यः कालः । अयमपिकालामृततिथिरेवावधार्यते । किं कारणम् ? । पूर्णसंवत्सरादिसाहचर्यादयमपि चान्द्रएवावगम्यते । गणना चास्य तहदेव प्रायणतिथिमवधिं कृत्वा तत्परवर्त्तिनी तिथिमारभ्य, इति। वाशब्दाविकल्यार्थः । अत्रच, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy