SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का.] १०२३ इत्याश्वलायनवचनमपि बकृचमात्रविषयम् । तदवेकोद्दिष्टे मन्त्रस्योहापोहेषु अभिलापवाक्ये च बहु कक्रव्यमस्ति । ग्रन्थगौरवभयादुपारम्यते ॥ १० ॥ प्रकरणान्तरमाइ, अथ सपिण्डीकरणम् ॥ ११ ॥ वर्त्तिव्यते, इति सूत्रशेषः । समानः पिण्डायस्य, असौ सपिण्डः प्राप्तपिहलोकोभण्यते । तस्य हि पिण्ड: समानः साधारणोभवति । कथम् ? । सपिण्डीकरणात् परतः खल्वयं पार्वणभागी भवति । तत्र च पितामहादिभिः सममस्य पिण्डदानं भवति। तदानीञ्च यदस्मैदास्यते मात्रादीनामपि तत्र भाग इति। सायं पिण्डो न परमस्यैव । समानाहि म माचादीनां भवति । तेषामपि तत्र भोगस्याविशेषात्। पूर्वञ्च मपिण्डकरणात् न पितामहादिभिः समानोऽस्य पिण्डोभवति, न वा तत्रान्यस्य भोगदति । तस्मादमपिण्डस्य मपिण्डस्य करणं मपिण्डीकरणमिति कर्मणानामधेयम्। पार्वणमेकोद्दिष्टञ्चाभिधायेतस्याभिधानात् पावणेकादिष्टाभ्यामेतदिक्रियते, इत्यवगच्छामः । स्मरन्ति च । "श्राद्धदयमुपक्रम्य कुर्बीत सहपिण्डताम् । तयोः पार्वणवत् पूर्वमेकोद्दिष्टमथापरम्" । इति ॥ ११ ॥ अथास्य कालमाह For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy