SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः। [२ का.] तेषां खल्वेषां गन्धादीनां इन्दनिर्देशात् , लाघवात्, "अर्थेऽक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य विनिवृत्तिः स्यात् स्वधावाचनएवच” । इति छन्दोगपरिशिष्टे, अादिविशेषोपादानमहिम्ना तदितरत्रासतिवाधके तन्त्रानुष्ठानाभ्यनुज्ञानाञ्च तन्त्रेणैव प्रदानं करणीयम् । तदेवं द्रव्यतन्त्रतेवामीषां भवति, न पुनरुद्देश्यतन्त्रताऽपि । एतदनेनकि भवति । पितरमुद्दिम्य गन्धादिपञ्चकं तन्त्रेणेमष्टव्यम्। पवं पितामहम् । एवं प्रपितामहम् । मातामहपतेप्येवम्, इति। कथं ज्ञायते ? । स्टणु यथा ज्ञायते । “उदकपूर्व तिलोदकं ददाति पितुनर्नाम ग्टहीत्वा असावेतत्ते तिलोदकं ये चात्र वामनु यांच त्वमनु तस्मैते खधेत्यप उपस्पृश्यैवमेवेतरयोः, तथा गन्धान्" इति तावदन्वष्टक्यकर्मणि ग्राह्यकारेण सत्रितम् । तदत्र, तिलोदकस्य प्रत्येकेन प्रदानं सूत्रयित्वा, 'तथा गन्धान्' इति सूचयन् गन्धादीनां मिलितानामपि, पित्रादिप्रत्येकाद्देशेनैव दानमतिदिशति । अन्वष्टक्यधर्माः पिण्डपिढयज्ञे, नद्धाश्चात्र प्रदिश्यन्ते, इत्यवोचाम। अस्मादेव कारणात् संबोधनान्तनाम्ना ये चात्र त्वाम्, इति मन्त्रेणचामीषां गन्धादीनामुत्सर्गः कर्त्तव्यः, इत्यवगच्छामः । तदमे मिलिता गन्धादयः प्रत्येकं पित्रादिमुद्दिश्य पूर्वाकप्रकारेणात्मृज्य ब्राह्मणेषु प्रतिपादयितव्याभवन्ति । प्रतिपादनञ्चामीषामेकैकशः करणीयं न मिलितानाम् । कुतः? । "गन्धान ब्राह्मणसात् कृत्वा पुष्यामृतुभवानि च । धूपञ्चैवानुपूर्व्यण अगौ कुर्य्यादतः परम्" । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy