________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर
श्राद्धकल्पः।
श्राद्धकल्पः।
[२ का.]
वक्ष्यमाणत्वात् तस्यापि निवृत्तिर्विज्ञायते । अमिमतामग्निप्रणयनं यद्यत्रापि भवति, स्तरणमपि दर्भमुष्टस्तदभितः कर्तुमुचितम्। अष्टमदेशपरिवारणमपि यद्यत्र क्रियते,-किनाम तवानिष्टं भवति,इति न खबधिगच्छामि। विशेषं विना परिवृतएव पिश्यं कर्म सधैरनुमन्यते । तथा हि हविषः श्वादिदृष्ट्यपघातान भविष्यतीति ।
"पण्डापविद्धचाण्डालपाषण्डपन्मत्तरोगिभिः । कृकवाकुश्वननैश्च वानरयामसूकरैः । उदक्यास्तकाशीचिमताहारैश्च वीक्षिते । श्राद्धे, सुरान पितरोभुजते पुरुषर्षभ ! । तस्मात् परिश्रिते कुर्यात् श्राद्धं श्रद्धासमन्वितः ।
उर्ध्वाञ्च तिलविक्षेपायातुधानान् निरामयेत्” । इति च स्मरन्ति पौराणिकाः। पिण्डपित्याएव तावन्मांमचरनास्ति । "अन्वष्टक्यस्थालीपाकेन पिण्डपित्यज्ञोवाख्यातः" इति सूत्रे स्थालीपाकग्रहणात् । कथमसौ अत्र श्रष्येत । परन्तु, तत्राक्षय्यहप्तेः सूत्रयिष्यमाणत्वात् मांसमप्यचेच्छया पच्यते । तदिदं तिलादकदानम्,
"आसुरेण तु पात्रेण यस्तु दद्यातिलोदकम् । पितरस्तस्य नामन्ति दशवर्षाणि पञ्च च । कुलालचक्रनिष्यन्नमासुरं मृण्मयं स्मृतम् ।
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् । इति कात्यायनोकपात्रेण करणीयम् । तिलोदकञ्चदम्,-'अमुकगोत्र पितरमुकवर्मन् असावेतत्ते तिलोदकं येचात्र वामन यांश्च
For Private and Personal Use Only