SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६५४ [२] का. ] - इति वचनारम्भोघटते । इतरथा खल्वयमारम्भोऽनर्थकः स्यात् । नचे देवं, तत्रोक्तानां भूयसामपि विशेषाणां तन्मात्रपरत्वापच्या पार्व्वणे करणं न स्यात् । क्रियन्ते च । तस्माद् यथेोक्तमेवास्तु | यस्य हि विशेषस्य पार्व्वणे करणं नाभिप्रैति, कयाचिद्भया तमवबोधयति । कृत्यप्रदीपेऽप्युक्तम्, – “कराग्राग्रपवित्रत्वमाभ्युदयिके विशेषः - इत्यायाति, तथा चैतद्वैपरीत्यं पार्व्वणे स्यात् ?- दूति चेत् । नैवम् । मिलितहस्तोपरि दानमभिधाय, 'नैकैकस्याच दीयते' - दूति यत् पुनरभिधत्ते, तेन ज्ञापयति, — इदमेवाच विधीयते, कराग्राग्रपवित्रकत्वन्त्वनूद्यते”— इति । यचोकं रघुनन्दनेन, - 'नैकैकस्याच दीयते - इत्यभिधानं विना पित्रादित्रयत्राह्मणानां मिलितहस्तो परि दानानुपपत्त्या नैकैकस्याच दीयते, — इत्यस्य पुनरभिधानानुपपत्ति:'इति । तदयुक्तम् । ज्येष्ठोत्तरकरत्वेनैव मिलितहस्तलाभात् । यदप्युक्रम्,–“ज्येष्ठोत्तरकरत्वस्य पित्रादिप्रत्येक ब्राह्मणापेचयाऽपि सम्भवेन तथात्वानुपपत्तेः' – इति । तदप्यसङ्गतम् । ज्येष्ठोत्तरकरान् युग्मान्,इति बहुवचनेन बहूनामपि युग्मानां ज्येष्ठोंत्तरकरत्वकथनात् पिचादि प्रत्येक ब्राह्मणापेक्षया वर्णनस्यानुचितत्वात् । निषिद्धोहि ब्राह्मणानां निस्तारः । तन्मात्रपरत्वे प्रमाणाभावाच्च । यच्चापरमुक्तम्, - ' कराग्राग्रपवित्रत्वस्य पार्व्वणेऽनुक्तत्वादनुवादानुपपत्ते:' इति । तदपि नास्ति । श्रस्मादेवानुवादात्तत्र विधेरनुमानेोपपत्तेः । तथा चोक्तम् । “लिङ्गादपि विधिर्ज्ञेयो दर्भेषु विकिरोयथा” । इति । अनुवादोवा मा उपपादि । तथापि, अन्यत्राप्येषएव स्यात्' - इति वचनात् पार्व्वणेऽप्येतत् प्राप्नोति । 'नैकैकस्याच दीयते' Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्यः । For Private and Personal Use Only wede
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy