SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ का.] श्राद्धकल्यः। ६३३ "पिटभ्यति दत्तेषु उपवेश्य कुशेषु तान् । गोत्रनामभिरामन्य पिढनयं प्रदापयेत्” । ईति च । तथा व्यासः । "चतुर्थी चासने नित्यं सङ्कल्पे च विधीयते । प्रथमा तर्पणे प्रोक्ता संबुद्धिमपरे जगुः” । इति। तदिदं वचनमस्माकमपि भवति । कथं ज्ञायते ? । अस्मत् परिशिष्टकता कात्यायनेनैतस्थार्थस्य सुस्पष्टमुपदेशात् । 'संबुद्धिमपरे' -इत्यभिधानाच्च । तर्पणे हि संबुद्धिरन्येषां भवति । अस्माकन्तु प्रथमैव तत्र प्रयुज्यते । 'गोत्रस्तु तर्पणे प्रोक्नः' इति गोभिलीयवचनात् । तदेवम् , पितभ्यः, इति दत्तेषु कुशेषु, इत्यभिधाय,गोत्रनामभिः पिहनामन्त्य अर्थं दद्यादिति ब्रुवाण: कात्यायनः कुशदाने पितृणं गोत्रनामभिरामन्त्रणं नानुजानाति, इत्यवगच्छामः । 'पिटभ्यति दत्तेषु' इति च 'इति' करणेन सुव्यकमेवमुपदेशात् । "आसनावाहने पाये अन्नदाने तथैवच । अक्षय्ये पिण्डदाने च षट्सु नामादि कीर्तयेत्” । इति श्लोकसंग्रहकारवाक्यमस्मतप्रयोगव्यतिरिक्तविषयम्। कुतः? । अस्मत्परिशिष्टविरोधात् । षणामन्यत्राप्यादावस्माकं नामादिकीर्तनस्योपदेशाच्च । यत्तु, "उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना" । इत्युकप्रकारेण पित्भ्योदत्तेषु कुशेषु,-इति नारायणोपाध्यायवर्णनम्। तदमङ्गतम् । यथाश्रुतार्थपरित्यागे मानाभावात्। व्यवहित For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy