SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः। द्वितीया काण्डिका। श्रासनेषु दीनास्तीर्य ॥१॥ येवासनेषु श्राद्धिब्राह्मणाः पूर्वमुपविष्टाः, तेष्वासनेषु दर्भानास्तीयं । तदिदमासनेषु दर्भदानं तन्त्रेण करणीयम् । नैयायिकी हि तन्त्रतानोपेक्षितुं युक्ता । कात्यायनोऽपि, "अर्थेऽक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य विनिवृत्तिः स्यात् स्खधावाचनएवच" । इत्यर्थादावेव तन्त्रनिषेधमुपदिशन्नन्यत्र तन्त्रमनुजानाति। तदमेकुशाः देवे ब्राह्मणदक्षिणपार्श्वे पित्ये तु वामपार्श्वे दातव्याः, इति महायशाः । वचनमप्युदाहरति । "पिरणामासनं दद्यादामपार्श्वे कुशान् सुधीः । दक्षिणे चैव देवानां सर्वदा श्राद्धकर्मसु । इति । तानिमान् दीन् दैवे, विश्वेभ्योदेवेभ्यः स्वाहा,-इति वा, वषट्, इति वा, नमः, इति वा, पित्र्य च "पिलभ्यः स्वधा"इत्युत्सृज्य दत्त्वा, तेषु ब्राह्मणानुपवेशयेत् । तथाच कात्यायनः । "स्वाहाकार-वषट्कार-नभस्कारादिवौकसाम् । खधाकारः पिढणाञ्च इन्तकारोनृणं मतः”। इति। For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy