SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का. ] सामान्याश्रयाः श्रनारभ्याधीतास्तु विशेषाः कर्त्तव्याः । परमेषामकरणेऽपि स्वशास्त्रोक्रमाचस्यानुष्ठानादेव फलं भवति । करणे त्वभ्युदयः । सामान्याश्रयं प्रयोगान्तरन्तु, स्वशास्त्रोक्तप्रयोगस्यान्ते द्रच्छया पृथगनुष्ठेयम् । ततख, सामान्याश्रयम्य प्रयोगान्तरस्यानुष्ठाने महानभ्धुदयः । श्रननुष्ठानेऽपि न फलहानि:, इति । तदित्थं शास्त्रार्थ - मनुरुन्धानैरस्माभिः स्वशास्त्रोक्त प्रयोगे परेशानां सामान्याश्रयप्रये - गान्तरोकानाञ्च विशेषाणां समुच्चयादुपारम्यते । पूर्व्वे तु निबन्धारः, - एतदननुसन्धानाद्वा, पाण्डित्यातिशयख्यापनादा, स्वशास्त्रोकस्य प्रयोगस्यान्तराऽन्तरा येभ्योयावन्तोऽरोचन्त ते तावतः परोकान् सामान्याश्रयप्रयोगान्तराभिहितांश्च विशेषानभिन्यवीविशन्त । तथाऽन्यत्रापि, प्रयोगान्तरविशेषान् प्रयोगान्तरे समुदचैषुः । तदश्रद्धे यम् ॥०॥ २३ ॥ ● ॥ श्राद्धकल्पः । पि द्विगुणास्तु दर्भान् ॥ २४ ॥ ६२६ डिगुणान् द्विगुणीकृतान् दर्भान् पित्र्ये कुर्य्यात् । दैवे तु जवएव दर्भीभवन्ति । बौधायनोऽप्याह । "प्रदक्षिणन्तु देवानां पितॄणामप्रदक्षिणम् । देवानामृजवादभी: पितृ द्विगुणाः स्मृताः” । इति । तदनेन, यत् किञ्चित् पित्र्ये उत्स्रष्टव्यं तदपि द्विगुणैर्दर्भः कर्त्तव्यम्, - इत्यर्थदुक्तं भवति । तथाच हारीतः । “दर्भैरद्भिस्तिलैर्दत्तं तूष्णीमप्याशुते दिवम् । विधिना त्वानुपूर्व्येण श्रचयं परिकल्पते” । 6 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy