SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का.] श्राद्धकल्पः। १६ "पितृणं ब्राह्मणेयोज्योदेवे त्वग्निं नियोजयेत् । प्रणीतान्नाद्यमुद्धृत्य ततः श्राद्धं समापयेत्” । इति । देवेवग्निमिति सान्यभिप्रायं वचनम्। तथाच पृथीचन्द्रोदये प्रचेताः। "एकम्मिन् ब्राह्मणे दैवे मानेरनिर्भवेत् सदा । अनग्रेः कुशमुष्टिः स्यात् श्राद्धकर्मणि सर्वदा" । इति। माढश्राद्धे तु विप्रालाभे सुवासिनीरपि पूजयेदित्याहापरार्के वृद्धवशिष्ठः । माटश्राद्धे तु विप्राणामलाभे पूजयेदपि । पतिपुत्रान्विता भव्या योषितोऽटौ कुलोद्भवाः” । इति । अष्टाविति वृद्धिश्राद्धविषयमिति कमलाकरः । अाह । यदा पुनरेकोऽपि ब्राह्मणे न लभ्यते, तदा किं ब्राह्मणाभावात् श्राद्धलोपः, अथवा ब्राह्मणप्रतिनिधिमुपादाय श्राद्धं करणीयम् ? इति । ब्राह्मणप्रतिनिधिमुपादाय श्राद्धं करणीयमिति ब्रमः । कुतः ? । उच्यते। ब्राह्मणेहि गुणभावेन श्राद्धमुपकरोति । न च गुणस्य लोपे प्रधानमपि लोपनीयं भवति । "गुणलोपेच मुख्यस्य” इति सिद्धान्तविरोधात् । गुणोहि नाम स भवति, यो मुख्यस्योपकारे वर्त्तते । सचेदुपादीयमानोमुख्यमुपरुणद्धि, गुणएवासौ न भवेत् । मुख्यं कथं सगुणं स्यात्, इति खल्वमौ गुणेषु प्रवर्त्तते, न मुख्यं कथमुपरुध्येत, इति । तस्मात् ब्राह्मणप्रतिनिधिमुपादाय श्राद्धं करणीयमिति प्रतिपद्यामहे । मुख्यालाभे प्रतिनिधिरुपादेयः, -इति दर्शितञ्च षष्ठेऽध्याये । तथाच्छन्दोगपरिशिष्टम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy