SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८१८ www.kobatirth.org [ १ का. ] करणीयम् । यद्यप्यच, एकब्राह्मणपक्षेोनेोपदिश्यते, तथापि न्याथा गतत्वाद्ग्रन्थान्तरोपदेशाच्चादरणीयः । तथाच ग्टह्यासंग्रहः । “श्राद्धे ब्राह्मण एकश्चेत् स्वल्पञ्च प्रकृतं यदि । वैश्वदेवं कथं तत्र ? इति मे संशयोमहान् । प्रणीतान्नाद्यमुद्धृत्य सर्व्वस्य प्रकृतस्य तु । ब्राह्मणाय प्रदातव्यमेवं भवति सम्पदि" । इति । श्राद्धकल्पपरिशिष्टे । श्राद्धकल्पः इति । शङ्खः । Acharya Shri Kailassagarsuri Gyanmandir “एकस्तु ब्राह्मणः श्राद्धे ह्यल्पन्तु प्रकृतं भवेत् । त्रयस्तु पितरः प्रोक्ताः कथं चाश्नन्ति ते त्रयः । उरसि पितरेrभुङ्क्ते वामपार्श्वे पितामहाः । प्रपितामहादक्षिणतः पृष्ठतः पिण्डतका : " । इति । परवचनं गृह्यामंग्रहेऽपि । तथा वशिष्ठः । " अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् । शुभशीलापसम्पन्नं सर्व्वीलक्षणवर्जितम् । यद्येकं भोजयेत् श्राद्धे देवं तत्र कथं भवेत् ? । अन्नं पात्रे समुद्धृत्य सर्व्वस्य प्रकृतस्य तु । tarted कृत्वा ततः श्राद्धं समापयेत् । प्रास्येदग्नौ तदन्नन्तु दद्याद्दा ब्रह्मचारिणे” । "भोजयेदथवाऽप्येकं ब्राह्मणं पंक्तिपावनम् । दैवे कृत्वा तु नैवेद्यं पश्चादौ तु तत्क्षिपेत्" | इति । तथा महायशोधृतं वचनम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy