SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का.] श्राद्धकल्पः। "सुरभीणि तु स्नानानि गन्धवन्ति तथैवहि । श्राद्धेष्वेतानि योदद्यादश्वमेधफलं लभेत्” । इति । शचीन् तृतकाद्यशौचरहितान् । अन्यत्याशौचस्य स्नानाचमनाभ्यामेवापगमात् । श्राचान्तान् कृताचमनान् । तदनेन, पादप्रक्षालनमपि देयमियुतं भवति । पादप्रक्षालनपूञ्चमाचमनस्य ग्टह्यसूत्रेऽभिधानात्। तथाच ग्ट ह्यवत्रम् । "प्रक्षाल्य पाणी पादौ च चिराचामेत् दिः परिमजोत"-दत्यादि। सदाचारसिद्धं खल्वेतत् पादप्रक्षालनदानादिकमिति न विशिष्टसूत्रितमिति लिय्यते । तदिदमर्थं परिभाषाप्राप्तस्याप्याचमनस्य पुनरिहोपदेशः । अथवा । “यज्ञोपवीतिनाऽऽचान्तोदकेन कृत्यम्” इति परिभाषया कर्तुरेव प्राप्नोत्याचमनं न भोः, इत्याचान्तान्–इत्याह । तदित्थम्भूतान् ब्राह्मणान् प्राङ्मुखान् , युग्मान्-समान दिचतुरादीनित्येतत् । दैवे उपवेश्य,-प्रागग्रेषु कुशेषु, इत्यर्थः। कथं ज्ञायते ? । प्रतिमुखानामुपवेशनस्थ सूत्रणात् प्राची दिक् खल्वागतैव हृदयमस्माकम् । अागतैव चेत्, न युज्यते विना कारणमुत्सद्युम् । "प्राङ्मखकरणञ्चानादेशे"-इति सूत्रकारवचनाच्चैवमवगच्छामः । कात्यायनोऽप्याह “यत्र दिनियमो न स्याज्जपहोमादिकर्मसु । तिस्रस्तत्र दिशोज्ञेयाः प्राची सौम्यापराजिता" । इति । देवलीयेऽपि प्रयोगे, "ये चात्र विश्वदेवार्थ विप्राः पूर्वं निमन्त्रिताः । प्राङ्मुखान्यासनान्यषां विदर्भापहितानि च” । इत्युक्तम् ॥ ०॥ १६ ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy