SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १ का.] श्राद्धकल्प. “वीक्ष्यान्धो नवतेः, काणः षष्टेः, श्वित्री शतस्य तु । पापरोगी सहस्रस्य दातुर्नाशयते फलम्" । इति पापरोगिणेवर्जनं स्मरति । पापरोगपदार्थानभिज्ञस्तु कुल्लकभट्टः,-'पापरोगी रोगराजापहतः'-इत्येतावन्मात्रं व्याचटे। तदनादरणीयम् । 'व्याधिताइश्चिकित्स्यव्याधिः' इति महायशाः । 'सदारोगो' इति रघुनन्दनः । ___ अधिकाऽधिकाङ्गः । कस्मात् ? । 'व्यङ्गि'-इत्यत्राणेन वैगुण्यदर्शनादत्रापि तेनैवाधिक्यस्य वर्णयितुमुचितत्वात् । तथाच शङ्खः । हीनाङ्गा अतिरिक्ताङ्गा ब्राह्मणाः पंक्तिदूषकाः” । इति । 'अधिकाङ्ग'-इत्येव केचित् पठन्ति । व्यङ्गी विकलाङ्गः, हीनाङ्गोवा । 'विकलेन्द्रियः', इति केचित् । केचित् न पठन्येव । श्वित्री श्वेतकुष्ठो, दूति भानूपाध्यायप्रभृतयः । स्थलपादः इति कल्पतरुः । कुष्ठी उक्तातिरिक्तकुष्ठगेगवान् । बहवः कुष्ठभेदाः पराणेषु पद्यन्ते । तथाच भविष्ये । "श्टण कुष्ठगणं विप्र ! उत्तरोत्तरतागुरुम् । विचिका तु दुश्चमा चर्चरीयस्तृतीयकः । विकर्चुणताम्रौच कृष्णश्वेते तथाऽटकम् । एषां मध्ये तु यः कुष्ठी गर्हितः सर्वकर्मसु । वणवत् सर्वगात्रेषु गण्डे भाले तथा नमि” । ईत्यादि । कुनखी स्वभावतः सङ्कुचितनखः । इतरे दिननादयो न निमन्त्रणीयाः । पाह। अनर्थकोऽमीषां वर्जनोपदेशः ? । यदा स्नातकादयो For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy