SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः। [१ का.] एके यतीन* ॥८॥ यतयस्त्रिदण्डिनदहाभिप्रेयन्ते । कथं ज्ञायते? । “यतिस्त्रिदण्डः करुणा राजतं पात्रमेव च" । इति । __“शिखिभ्याधातुरक्तिभ्यस्त्रिदण्डिभ्यः प्रदापयेत्” । इति चैवमादि स्मरणात् । तदमे यतयोनिमन्त्रणीयाः, इत्येकेषांमतम् । अस्मादवगच्छामः,-यतयोन निमन्त्रणीयाः, इत्यन्येषां मतम् , इति । कस्मात् पुनः कारणात् यतयोन निमन्त्रणीयाः,इति तत्र भवन्तोमन्यन्ते ? । स्मारोह्यमीषां भोजने अभ्युदयविशेषं स्मरन्ति । "सारम्भनिवृत्तानां यतीनां दत्तमक्षयम्” । इत्यादि बहुलम्। उच्यते । श्राद्धे किल मधुमांसः पितरोऽतिशयं प्रीयन्ते । एषा हि तेषामाशंसा । “योदद्यादन्नमस्माकं तत्सर्वं मधुना सह । श्रामिषेण समायुक्तं शस्तेन मृगपक्षिणम्” । इति । तथाचोपदेच्यति हप्तिविशेषं मांसविशेषेण । यतयस्त्वमधु मांसाशिनोभवन्ति । अतएव, “यतिपात्रकं श्राद्धं मधुमांसवर्जितं कार्य्यम्” इति वामनपद्धतिः । तदिदमनिमन्त्रणकारणं यतीनाम् । कस्य देतोस्तीमी निमन्त्रणीयाः भवन्यन्येषाम् ? । यतिपात्रकश्राद्धस्य महाफलवादित्याह । * एके यतीन् वा,-इति कस्यचिन्मते सूत्रपाठः । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy