SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [१ का. ] इति वचनम् । पञ्चमीमारभ्योत्तरतिथिषु - इति तस्यार्थः । “पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोः” – इति हेमाद्रिप्रभृतयः पठन्ति । श्रश्विनकृष्णशुक्लपक्षपञ्चम्योर्मध्ये, – इति वर्णयन्ति च । सेोऽयमपरपक्षश्राद्धस्य गौणकालः । " भौजड़ीं तिथिमासाद्य यावच्चन्द्रार्कसङ्गमम् ” | श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir इत्यपि वचनं भवति । एतेन, - “पञ्चम्यूईञ्च तत्रापि दशम्यूद्धं ततोऽप्यति” । इति विष्णुधर्मोत्तरवचनमपि व्याख्यातं वेदितव्यम् । पञ्चमीमारभ्य - करणेऽपि त्रिभागहीनत्वं पक्षस्य नानुपपन्नम् । प्रतिपदादितिथिचतुकस्य चतुर्द्दश्याश्च त्यागेन तदुपपत्तेः । स्मरन्ति च । " श्राद्धं शस्त्रहतस्यैव चतुर्दश्यां महालये” । रहह इति । त्रिभागादिकल्पेप्येषैव रीतिरनुसर्त्तव्या । पचकल्पाश्रयणे तु चतुर्दश्यामपि श्राद्धं कर्त्तव्यमेव भवति । पक्षव्यापकतायाः प्रकारान्तरेणानुपपत्तेः । तथाच कार्ष्णाजिनिः । "नभस्यस्यापरे पचे श्राद्धं कुर्य्याद्दिने दिने । नैव नन्दादि व स्थानेव वर्ज्य चतुर्दशी” | इति । तथा ब्रह्माण्डपुराणम् । " कन्यां गते सवितरि दिनानि दश पञ्च च । पार्व्वणेन विधानेन श्राद्धं तत्र विधीयते” । इति । तथा तव । "कन्यां गते सवितरि यान्यहानि तु षोड़श । क्रतुभिस्तानि तुल्यानि देवानारायणोऽब्रवीत् ” । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy