SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ १ का. ] www.kobatirth.org - 2 श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir पञ्चमीप्रभृति वाऽपरपक्षस्य ॥ ३ ॥ ''पितृभ्योदद्यात्' – इत्यनुवर्त्तते । श्रपरपक्षस्य कृष्णपक्षस्य । तथाच श्रूयते । “पूर्व्वः पतेादेवानामपरः पचः पितृणाम् ” – इति 1 " योऽपचीयते सेोऽपरपच: " - इत्यपि निगमोभवति । वाशब्दो वैकल्पिकं कल्पान्तरं समुचिनोति । कथं नाम ? | पञ्चमीप्रभृति वा दद्यात् प्रतिपत्प्रभृति वा इति । तथाच गौतमः । “पञ्चमीप्रभृति वाऽपरपक्षस्य, यथाश्राद्धं सर्व्वस्मिन् वा” – इति । वच्यमाणकल्पापेक्षया विकल्पार्थः ॥ ० ॥ ३ ॥ ० ॥ श्रथवा । वाशब्दो यदहरुपपद्येत ॥ ४ ॥ 67 'वाऽपरपक्षस्य ' - इत्येतदिहापि सम्बध्यते । कुतः ? | मध्यपठितस्य विशेषाभावात् । तदयमर्थः । श्रपरपक्षस्य यदर्यस्मिन्नहनि उपपद्येत सम्पद्येत द्रव्यादिकम्, तदहवी पितृभ्योदद्यात्, - इति । उपपद्यते, - इति पाठेऽपि तथैवार्थः । सोऽयं विकल्पः – पञ्चमीप्रभृति वा दद्यात्, यदहरुपपद्यते तदवी दद्यात् इति । तदनेन सूत्रद्वयेन कृष्णपक्ष निमित्तमपि श्राद्धमुपदिष्टं भवति । तदिदं श्राद्धइयम् — श्रमावस्यानिमित्तं कृष्ण पतनिमित्तञ्च – इति । तत्र, कृष्णपक्षनिमित्तएव श्राद्धे प्रशस्तकालेोऽमावस्येति तन्त्रान्तरकाराः स्मरन्ति । तथाच निगमः । " अपरपचे यदहः सम्पद्यते श्रमावस्यायान्तु विशेषेण” – इति । नचैतावता अमावस्यायाः निमित्तत्वं शक्यमपहोतुम् । न खल्वन्यस्य प्रशस्तकालो न भवत्यन्यस्य निमित्त - मित्यच किञ्चित् प्रमाणमस्ति । श्रभिहितञ्चैतदस्माभिरधस्तादेव । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy