SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र.] ग्टह्यासंग्रहः। कृष्णाजिनं स्मृगचर्म । प्रसिद्धाअन्ये । एते दर्भादयोनिर्माल्यतां निवीर्यतां न प्राप्नुवन्ति । तस्मात् , पुनः पुनरपि नियोज्याः। तत्त्वकारस्वन्यथेमं लोकं पठति ; दर्भाः कृष्णाजिनं मन्त्राब्राह्मणाहविरग्नयः । श्रयातयामान्येतानि नियोज्यानि पुनः पुनः । इति । एवं खल्वग्रिमलाके,-"निर्माल्याश्चितिपावकाः" इति वचनमाञ्जस्येनेोपत्स्यते । तत्र, अयातयामत्वम् अपि अनिर्माल्यता पर्यवसायि बोद्धव्यम्। कुतः ?। “जीर्णञ्च परिभुतञ्च यातयाममिदं दयम्” । इत्युक्तेः । स्मृत्यन्तरेतु विशेषः; "संग्रहादत्सरं यावत् शुद्धिः स्यादिभवहिषाम् । अतः परं न गृह्णीयात् जपादौ यज्ञकर्मणि" । इति । 'अत्रच, "मासे नभस्यमावस्या तस्यां दर्भचयोमतः । अयातयामास्ते दीविनियोज्याः पुनः पुनः”। इति मरीचिवचनात् श्रावणामस्थायामेव चितानां दर्भाणामयातयामत्वम् । एवमेके । 'सर्वदेव चितानां दर्भाणामयातयामत्वम्। मरीचिवचनन्तु, “वार्षिकांश्चतुरोमासान् नाहरेत् कुशम्मृत्तिकाः । श्राददीत त्वभावे तु मयोयस्योपयोजनम्” । इत्यस्य निषेधस्यापवादकम् । एवमपरे। तदत्र भवन्तोभूमिदेवाः प्रमाणम्॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy