SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृह्यासंग्रहः। [२ प्र.] सम्पत्ती विधिरयम्-इति। तमिमं विधिं ब्राह्मणसम्पत्तावपि द्रव्यस्याल्पत्वे, अतिदिशति,-एवं भवति सम्पदि, इति । ब्राह्मणसम्पत्तावपि द्रव्यस्याल्पत्वे एवमेव कर्त्तयमित्यर्थः ॥ तत्र सामगस्य प्रमंशामाइ, यद्येकं भोजयेत् श्राद्धे च्छन्दोगं तच भाजयेत् । ऋचा यजूंषि सामानि विद्यं तच तिष्ठति ॥ ८२॥ पूर्वार्द्धस्य हेतुरूपमुत्तरार्द्धम् । विद्यं वयोवेदाः । स्वार्थ तद्धितः । तत्र च्छन्दोगे। ऋज्वन्यत् ॥ तत्र फलार्थवादमाह,ऋग्भिस्तु पितरः प्रीतायजुर्भिस्तु पितामहाः। सामभिः प्रपितामहास्तस्मात्तं तत्र भाजयेत् ॥३॥ तं छन्दोगम् । तत्र श्राद्धे । लिष्टमन्यत् ॥ अटेत पृथिवीं कृत्वां सशैलवनकाननाम् । लभेत यदि पिचर्थे साम्नामक्षरचिन्तकम् ॥८४ ॥ वनकाननयोरवान्तरभेदविवक्षया पृथगुपन्यासः । अथवा । वनं नीरं जलमित्यनर्थान्तरम् । काननशब्दस्य ग्रहमोऽस्ति । एकस्य पुनः पुनः श्राद्धभोकृत्वेऽपि दोषोनास्तीति प्रसङ्गादाह, दभाः कृष्णाजिनं मन्त्राब्राह्मणाश्च विशेषतः। नैते निर्माल्यतां यान्ति नियेाज्यास्तु पुनः पुनः॥८॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy