SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२० ग्टह्यासंग्रहः । [१ प्र.] सीमन्तकरणे कर्मणि तिलोदर्भपिल्यो भवन्ति । ताभिस्तिस्मृभिरेववारत्रयं सीमन्तमुन्नयेत् । तदनेन,-"अथ मीमन्तमूर्द्धमुन्नयति भूरिति दर्मपिञ्जूलीभिरेव प्रथमं भुवरितिदितीयं खरितिवतीयम्” इति सूत्रोता दर्भपिचूल्य उन्नयनञ्च व्याख्यातम् । भवदेवभट्टस्वेतदजानानः, नव दर्भपिञ्जूलीराह। दर्मपिलीनां त्रित्वमभ्युपगच्छन्नपि भट्टनारायण:-एकैकया पिङ्गल्या एकैकमुन्नयनं वदन्ननादेयवचन एव । त्रिभिः स्थानत्रये स्थितैः श्वेतैः-अन्तरा वर्णन्तरसम्भिन्नैरित्यर्थः । इत्यम्भावे वतीया । तदेवम्भूतैः श्वेतैः,-"त्रिश्वेतया च शलल्या"इति सूत्रोका शलली व्याख्याता। “अथ वीरतरेण” इति सूत्रोक्तो वीरतरः शरः प्रोकः ॥ दिशाञ्च विदिशाच्चैव यत्र नोक्ता विचारणा॥५॥ "सर्वतः” तत्र शब्दोऽयं विधियोगे निपात्यते । यत्र विधियोगे-विधानयोगे, दिशां पूवादीनां विदिशामागेय्यादीनाञ्च विचारणा, न प्रोक्ता नाभिप्रेता, तत्र ‘सर्वतः,'–इत्ययं शब्दोनिपात्यते क्रियते । तथाच गोभिलसूत्रम् । “यत्र श्वभ्राः स्वयं खाताः सर्वतोऽभिमुखाः स्यस्तत्रावसानं प्रारदारं यशस्कामाबलकामः कुर्बोत" इति । दीक्षितः पुनः-"एवं दक्षिणेवं प्रतीच्येवमुदीची"इति सूत्रमत्रोदाजहार ॥ विहितप्रतिषिद्धाञ्च प्रणीतां नोपकल्पयेत् ॥६६॥ पूर्व विहिता पश्चात् प्रतिषिद्धा या प्रणीता, सेयं विहितप्रतिषिद्धा । तामिमां प्रणीतां नोपकल्पयेत् ,-'ग्टह्याकर्मसु'-इति पराचीन For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy