SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र.] रह्यासंग्रहः । ८९९ "अपिवाऽन्यं मधित्वाऽभ्यादध्यात्” इति सूत्रेणारणेयोऽनिरुपदिष्टः । तत्रारणिस्वरूपादिकमाह आश्वस्योन्तु शमीगभीमरणिं कुर्वीत सोत्तराम्। उरोर्दोघी रत्निदीघीं चतुर्विंशाङ्गुलां तथा ॥ ७८॥ चतुरङ्गुलाच्छ्रितां कुर्यात् पृथुत्वेन षड़गुलाम् । श्राश्वत्थामश्वत्थसंबन्धिनीम् । शमीगी शमीगर्भसंबन्धिनीम् । तत्संरुन्धात्ताच्छब्दाम् । शमीगर्भश्च, __"संसक्तमूला यः शम्या: स शमीगर्भ उच्यते” । इति कर्मप्रदीपोकलक्षणः । मुख्योऽयं पक्षः । असम्भवे अाश्वत्थीमेव कुश्यात् । "अलाभे वशमीगीदुद्धरेदविलम्बितः” । इति कर्मप्रदीपवचनात् । सोत्तरामुत्तरारणिसहितामरणिं कुर्वीत । कीदृशीं कुर्वीत ?। उच्यते । उरोः सक्थिनादीधीम्। रनि याख्याता । तत्परिमाणदीर्घाम् । चतुर्विंशाङ्गलदीधीम् । तथेति दैर्घपरामर्शः । “खादिरे बध्नाति, पालाशे बधाति, रोहितके बधाति" इतिवदमीषां परिमाणानां विकल्पो बोद्धव्यः । चतुरङ्गलोच्छितां चतुरङ्गलोच्चाम्, पृथुत्वेन विस्तारेण षड़ङ्गलां कुर्यात् । अत्र, चतुर्विंशाङ्गलादि परिमाणमङ्गठाङ्गलाभिप्रादेण। अविशेषाञ्च दयोरप्यरण्योरेतत् परिमाणं बोद्धव्यम् । तथाच कर्मप्रदीपः । "चतुर्विंशतिरङ्गष्ठा दैव्यं षड़पि पार्थवम् । चत्वार उच्छ्रये मानमरण्याः परिकीर्तितम्” । 552 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy