SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र.] इति कर्मप्रदीपवचनात् । एवमपरे । तदत्र भवन्तो भृमिदेवाः प्रमाणम् ॥ श्रथेदानीं वर्जनीयाः समिध श्राह - ह्यासंग्रहः । मारणी राक्षसी रौद्री क्रव्यादी ब्रह्मराक्षसी । स्थूलजङ्घा कराली च वज्जहस्ता तथैव च ॥ २७ ॥ यमदूती च विज्ञेया इत्येताः समिधा नव । इत्येता नव समिधो नामतेा विज्ञेयाः ॥ यथाक्रममासां लक्षणं ब्रुवन् वर्ज्जनीयत्वमाह - ७ विशीणी विदला हस्वा वक्रा स्थूला हशा द्विधा ॥ २८ ॥ कृमिदष्टा च दीर्घी च वज्र्जनीयाः प्रयत्नतः । विशीर्णी त्रुटिता पाटितेत्येतत् । द्रयं मारणीत्युच्यते । विदला दलरहिता, त्वचा वियुक्रेति यावत् । द्वयं राचसी । ह्रस्वा प्रादेशप्रमाणात् न्यूना । द्वयं रौद्री । वक्रा प्रसिद्धा । द्वयं क्रव्यादी । स्थला श्रङ्गुष्ठात् स्थूला । द्वयं ब्रह्मराक्षसी । कृशा अङ्गुष्ठात् कृशा, श्रृङ्गुष्ठस्थौल्यस्य विहितत्वात् । द्वयं स्थूलजङ्घा । द्विधा दिशाखिका । दूयं कराली । कृमिदष्टा कृमिभिर्दष्टा । द्वयं वज्रहस्ता । दीर्घी प्रादेशात् दीर्घा । द्वयं यमदूती । ता एताः समिधो यत्नतेो वर्जनीयाः । तथाच कर्मप्रदीपः । “नाङ्गुष्ठादधिका ग्राह्या समित् स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकीटा न पाटिता । 5 G For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy