SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८४ धासंग्रहः। [१ प्र.] इति । 'तथाज्वालः' इति पाठे, अज्वाल इति च्छेदः। अज्वाला ज्वालारहितोऽग्निर्न विशुद्ध इत्यर्थः । तथा च कर्मप्रदीपः । “योऽनर्षिषि जुहोत्यग्नो व्यङ्गारिणि च मानवः । मन्दाग्निरामयावी च दरिद्रश्च स जायते” । इति । 'विश्राद्धोष्णविचक्षुषा' इति पाठे, “विशुद्धेन विगतोष्णन चक्षुषा यत्राग्नौ धूमो न दृष्टस्तत्र हातव्यम्” इति दीक्षितभाव्योतव वर्णना ॥ प्रभया भाति यव भगवांस्तत्र तिष्ठति । तत्र पूर्णाहुतिं दद्यात् सर्वकामप्रसिद्धये ॥ २६ ॥ यत्रैवाना प्रभया भाति ज्वालेत्यर्थः। तत्रैव भगवान् विष्णुस्तिष्ठति । 'तत्र पूर्णहुतिं दद्यात्';-सर्वेषां कामानामभिलसितफलानां प्रकपेण सिड्यर्थम् । पूर्णाहुतिदानोपदेशेन होमोऽपि तत्रैव कर्त्तव्यः,इत्यपि भङ्ग्यन्तरेणोपदिशति । अत्र च, यस्मिन् कर्मणि यः कामः शास्त्रेणानुशिष्टः, स एव कामस्तत्र सिध्यति, न पुनरन्योऽपीति द्रष्टव्यम् । तत् कस्य हेतोः ? । “सर्वत्वमाधिकारिकम्” इति सिद्धान्तात् । पूर्णहुतिन्तु ऊर्धः सन् दद्यात्, नोपविष्टः । कुतः ? । ____ “दद्यादुत्थाय पूर्ण वै नोपविश्य कदाचन" । इति भविष्यपुराणात् । एवमेके । गोभिलीयकर्मणुपविष्ट एव पूर्णइतिं दद्यात्, न पुनरूद्धः सन् । कस्मात् ? । "आसीन ऊर्द्धः प्रहो वा नियमा यत्र नेदृशः । तदासीनेन कर्त्तव्यं न प्रथेन न तिष्ठता"। For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy