SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र.] ग्टह्यासंग्रहः । ৩ पदेष्टव्यम् । मन्दिग्धश्चार्थी निर्णतव्यः । न हि गोभिलेनापि तत्र तत्राग्निनिषिद्धः। न खल्वेतत् परेशाखिक शास्त्रम्। न च गोभिलेन नोक्तमिति स्वशाखायामेव ग्रन्थान्तरोतमपि परित्यकव्यम् । परिशिष्टानामानर्थक्यप्रसङ्गात् । अनुक्तानां खल्वर्थानामुपदेशस्तेषु भूयोपलभ्यते । अलममदावेशेन ॥ एवं शास्त्रारम्भं प्रतिज्ञाय प्रथमन्तावदग्मिनामान्यभिधीयन्ते नवभिः श्लोकः, लौकिकः पावको ह्यग्निः प्रथमः परिकीर्तितः। अग्निस्तु* मारुतो नाम गर्भाधाने विधीयते ॥ २॥ हिशब्दो निश्चयार्थः । लौकिकोऽमिः पावकः कथितः । रघुनन्दनस्तु, -“लौकिके” इति पठित्वा, लौकिके-गृहप्रवेशे, इति वर्णयाञ्चकार। गर्भाधाने पुनारुतो नामानिर्विधीयते । यद्यपि, गोभिलेन तत्राग्निपिदिष्टः, तथाप्यस्माभिस्तत्पुत्रैस्तदुपदिष्टार्थवेदिभिमारुता नामाग्निस्तत्र विधीयते । तस्मादस्ति गोभिलोतऽपि गीधानेऽग्निरिति बोद्धव्यम्। विधीयते, इति करणाच्चैवमवगच्छामः । यदि नाम केवलं ब्रह्मणा उन इति गर्भाधाने, अग्निरुच्यते, इत्यभिप्रायः, तदा परिकीर्तितः, इत्येव कुर्यात्, न-विधीयते,-इति ॥ पुरसवने चान्द्रमसः शुङ्गाकर्मणि शोभनः । सीमन्ते मङ्गला नाम प्रागल्भा जातकर्मणि ॥३॥ सबने चान्द्रमा नामाग्निः । 'चन्द्रनामा'-दूति रघुनन्दनः पठति । * अमेस्तु, इति पाठान्तरम्। For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy