SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीय-गृह्यसूत्रे चतुर्थ पाठके नवमी काण्डिका । पुरुषाधिपत्यकामाऽष्टराचमभुक्का ॥ १ ॥ पुरुषाणामाधिपत्यं सैनापत्यादिकं कामयते, -- इति पुरुषाधिपत्य कामः । अष्टरात्रम्, अष्टौ अहोरात्राणि, मुक्का उपोष्य ॥ ० ॥ ॥ १ ॥ ॥ औदुम्बरान् स्रुवचमसेध्यानुपकल्पयित्वा ॥ २ ॥ उडुम्बरस्यैतान् औदुम्बरान् । तान् खल्विमान् वानेव न तेजमान्, — इत्यवगच्छामः । कथम् ? । दूमेन सहैकयेोगनिर्देशात् । स्रुवचमसेध्माः व्याख्याताः। तान् उपकल्पयित्वा – उपकल्प्य सम्पाद्य, — इत्येतत् । चममस्योपकल्पनं प्रणीतार्थम् । इभानामुपकल्पनम् — श्राज्यतन्त्रेण हामप्रज्ञापनार्थम् । कथं ज्ञायते ? । एवं खल्वमीषामुपकल्पनं दृष्टार्थं भवति । अन्यथा दृष्टार्थत्वमेषां कल्पनीयं स्यात् । नचैतदुचितम् - सम्भवति दृष्टे अर्थ ॥ ॥ २ ॥ ॥ प्राङ् वादङ् वा ग्रामान्निष्कम्य चतुष्पथेऽग्निमुपसमाधाय ॥ ३ ॥ कृतभाष्यं सूत्रम् ॥ ०॥ ३ ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy