SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३२ गोभिलीयं [ प्र. ८ का.) __ पौर्णमास्या५ रात्रौ खदिरशङ्कुशतं जुहुयादायुः कामः ॥ ११ ॥ पौर्णमास्यां रात्री, इत्युक्तार्थम् । खदिरः प्रसिद्धः। तन्मया: शङ्कवः कीलका:-खदिरशङ्कवः । तेषां खदिरशङ्कनां शतम्,--(शतशब्दः संख्यावचनः)-जुहुयात्, प्रकृतया एकाक्षर्यया ऋचा, क्षिप्रहामन्यायेन, इत्यर्थः । शङ्कवच प्रकृतिधमानुरोधात् समित्प्रमाणा: समिलक्षणयुक्ताश्च कर्त्तव्याः । तथा चोक्तम् । “सत्वचः शङ्कवः का• स्तीक्षणग्रा वीतकण्टका: । समिल्लक्षणमंयुक्ताः सुचीतुल्यास्तथाऽऽयताः” । इति । को जुहुयात् ? । आयुःकामः । आयुर्जीवितं कामयते यः, सोऽयमायुःकामः । कस्य श्रायुःकामः ? । अविशेषादात्मनः पुत्रा-- दीनां वा। कथं पुनः “शास्त्रदेशितं फलमनुष्टातरि” इति स्थिते सिद्धान्ते पुत्रादीनामप्यायुःकामयमानोऽधिकरोति, इति वर्ण्यते ? । ग्टह्याकर्मत्वादित्याह । ह्याकर्म खल्विदं ग्टह्यानामपि फलजनक भवितुमर्हति, न केवलं यजमानस्थैव । ग्टह्याश्च पुत्रादयः । न खत्वसौ यजमानोऽन्तरेणेतान् स्वमेवाभ्युदयं कामयमानो भवति, निर्वृतः । तत् मारत्वात्तस्य । तथाच ग्टह्यामंग्रहः । "पत्न्यः पुत्राश्च कन्याश्च जनिय्याश्चापरे सुताः । ग्टह्या इति समाख्याताः यजमानस्य दायकाः । तेषां संस्कारयोगेन शान्तिकर्मक्रियासु च । प्राचार्यविहितः कल्पस्तस्माद् ग्टह्या इति स्थितिः” ॥ इति ॥०॥ ११ ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy