SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [प्र. ६ का. ग्रह्यसूत्रम्। ६६९ महाव्याहतयश्च ॥८॥ महाव्याहृतयो भूराद्यास्तिस्रः । तासामप्येकैकया एकैका आहुतिहातव्या ॥॥॥॥ प्रजापत इत्युत्तमा ॥६॥ प्रजापते न त्वदित्यष्टचस्याटम्या ऋचा उत्तमा अन्या आहुतिहातव्या। तदेवमष्टर्चस्याटम्या ऋचा विनियोगः मृत्रितः। श्राह। अथ, उत्तमा,इत्येतदवाच्यं पाठक्रमादेवैतस्या उत्तमत्वसिद्धेः, अथोच्यते, कारणं क्तव्यम् ? । उच्यते । अस्या उत्तमत्ववचनादुपोत्तमापि काचिदाहुतिविज्ञायते । का पुनरुपोत्तमा नामाहुतिरभिप्रेता? । श्टणु । येयमष्टर्चस्य सप्तमी क्-अपेहि त्वम्, इत्यादिका साम्प्रतमप्यविनियुक्तव स्थिता, सेयमुपेोत्तमा इत्यवगच्छामः । कस्मात् कारणात् ? । तस्या विनियोगान्तरानवगतेः, उपस्थितत्वाच । तदेवमष्टर्चस्य क्रमपरिपठिताः 'परिबाधं यजामहे'-इत्येवमन्ताः षट् ऋचः, प्रदेशान्तरपठिता या तिरश्चोत्येका, वामदेव्यर्चस्तिस्रः, महाव्याहृतयस्तिस्रः । एवन्तावत् त्रयोदशाहुतयो भवन्ति । · अपेहि त्वमिति चतुर्दशी । प्रजापते न त्वदिति पञ्चदशी बोद्धव्या । तथा चोक्तम् । "विहारो वामदेव्यची व्याहृतीनां तथैव च । अलक्ष्मीनाशके होमे स्यादपेहि चतुर्दशी" ॥ इति ॥०॥६॥॥ पर्यावसितोऽलक्ष्मीनिर्णादः । अथेदानी कर्मान्तरं वन मारभते, 4 T2 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy