SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८० गोभिलीयं. प्र. ४ का.] आखुराजच्चोत्करेषु यजेत ॥ ३१ ॥ आखुराजो मुषिकानां राजा । तञ्च उत्करेषु यजेत । उत्कीर्य्यन्ते, -इत्युत्कराः पशवो भण्यन्ते । चशब्दात् सर्वेषामेव मीतायज्ञादीनामन्ते आज्येनायमाखुराजस्य होमः स्यात् । तथा चोकम् । “केवलाज्यहविष्काः स्युः सप्त सीतामखादयः । प्राज्येनाखुं यजेदनौ तदन्ते, नित्यमेव तत्” । इति । श्राखुराजाय स्वाहा,--इति होमः । सीतायज्ञादिषु पाखुराजहोमे च क्षिप्रहामन्यायमिच्छन्ति । यजेत, इति पुनः करणं पूर्वेणैककाशङ्कानिरासार्थम् ॥०॥३१॥०॥ इन्द्राण्याः स्थालीपाकः ॥३२॥ कर्त्तव्यः, इति सूत्रशेषः ॥०॥३२॥०॥ तस्य जुहुयादेकाष्टका तपसा तप्यमानेति॥३३॥ ऋज्वर्थमेतत् ॥०॥३३॥०॥ स्थालीपाकारताऽन्यत् स्थालीपाकारताऽन्यत् ॥३४॥ कृतभाव्यं सूत्रम् । दिर्वचनं प्रकरणसमाश्यर्थम् । अत्र किञ्चिदतव्यमस्ति । तत्र तावत् पृच्छामः । कः पुनरिन्द्राण्याः स्थालीपाकस्य काल: ?। तत्र केचिदाहुः । चतुरटको हेमन्तः, इति अष्टकाचतुष्टावगमात् तिसृष्वेव च कर्मोपदेशात् चतुर्थटकायामेतत् कर्त्तव्यम्,इति । तदमङ्गतम् । कस्मात् ? । चतुरटकपक्षस्याचा-ननुमतत्वात् । तदिदमभिहितमस्माभिः,-"तथा गौतमवार्कखण्डी" For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy