SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. ४ का.] ग्टह्यसूत्रम्। णादीनां सत्करणाच त्रयः, मिलिवा संवत्सरे मीतायज्ञादयः सप्त सम्पद्यन्ते । अष्टमश्च इलाभियोगः, इति । अत एवोतम् । “सप्त सीतामखादयः” इति । इदमिदानी मन्दिह्यते। एता एव, इति किमनन्तरोनाः सीतादयो देवताः पराश्यन्ते ? श्राहाखित् पूर्वी इन्द्रादयः ? उताहो सा एव ?-इति । तत्र, पूर्वाः पञ्च, इति केचित् वर्णयन्ति । कुतः ? । देवताशब्दसामान्यात् । पूर्वत्र तावत् एताभ्यो देवताभ्यः, -इति देवताशब्दः श्रूयते, अत्रापि, एता देवताः, दूति देवताशब्दः कृतः । तस्मात्, पूर्वावेव देवताशब्दप्रयोगात् पूर्वा एव ग्टह्यन्ते नोत्तराः। तदसङ्गतम् । कस्मात् ? । यस्मादुत्तरासामग्रहणे सीतायाः ग्रहणं न स्यात् । न च सीतायज्ञे सीतायाः परित्यागः कर्तुमुचितः । अन्ये तु, मासामेव ग्रहणमिच्छन्तः, पूर्ववत् पूलाः पञ्च चाहुतयः उत्तराश्चाज्याहुतयः, इति मन्यन्ते । तदप्यमङ्गतम् । कस्मात् ? । एवम्-इत्यकरणात् । एवं खल्वेवमिति कुर्यात् । न खलु देवतायाः परामर्श द्रव्यमपि परामर्टव्यम्, इति किञ्चिन्नियामकमस्ति । तस्मात्, एताः, इति सर्वनाम्नः प्रकृतपरामर्शकत्वात् एवकारकरणाच्चाविशेषेण सर्वासामेव देवतानां परामर्शः, इत्येतद्ग्टहीमः । पूर्वासां चरुणा उत्तरासामाज्येन होमः, इति तु नानुमन्यामहे । प्रमाणाभावात् । तस्मात् सर्वासामाज्येनैवात्र होमः स्यात् । तथा चोकम् । “केवलाज्यहविष्काः स्युः सप्त सीतामखादयः" । इति । अतिक्रान्तपरामर्शश्च नाचार्य्यस्याननुमतः, इत्यसकृदावेदितम् ॥०॥३०॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy