SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ईईड www.kobatirth.org गोभिलीयं Acharya Shri Kailassagarsuri Gyanmandir [8 प्र. ४ का. ] दक्षिणा हविषः सँस्करणम् ॥ ५ ॥ अतिदेशखरसादाहिताग्नेरपि शालाग्नावेव माभूदित्येतदर्थमिदमुच्यते । यो गाईपात्यादानीय प्रणीयते सेोऽयं दक्षिणाग्निः । ऋज्वन्यत् ॥ ० ॥ ५ ॥ ० ॥ ततश्चैवातिप्रणयः ॥ ६॥ ततस्तस्माद्दक्षिणाग्नेरेवाग्निमुद्धृत्य अतिप्रणयः पूर्वोक्तलक्षणः कर्त्तव्यः । च शब्दात् हामोऽपि तत्रैव स्यात् ॥०॥ ६ ॥०॥ शालाग्नावनाहिताग्नेः ॥ ७ ॥ श्रनाहिताग्नेः स्मान्तीः शालाग्नौ हविषः संस्करणं होमश्च कर्त्तव्यम | अतिप्रणयश्च तस्मादेव स्यात् । ननु, एतदवाच्यं शालाग्निः खल्वेतदर्थं एव । उच्यते । दक्षिणाग्नेरुपदेशादनाहिताः पिण्डपितृयज्ञ एव न स्यादित्यपि कस्यचिदाशङ्का स्यान्मन्दमतेः । श्रतस्तन्निरासार्थमेतदुच्यते ॥ ० ॥ ७ ॥ ॥ एवन्तावत् श्रहिताग्निशालाग्न्यो यौ विशेषः स सूत्रितः, अथेदानीमुभयसाधारणणें इतिकर्त्तव्यतां वकुमुपक्रमते । एवं वा किं समस्त एवं अन्वष्टक्यप्रकारः सूचितविशेषव्यतिरेकेण पिण्डपित - यज्ञे स्यात् ? । एवं खलु प्राप्तम् । एवं प्राप्ते इदमारभ्यते,— For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy