SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. ३ का.] ह्यसूत्रम्। ६४७ नम्-इति । ननु, सर्वेषां पिण्डानां निधानं सूत्रयित्वा परतः सूत्रणादेव प्रतिपिण्डनिधानं जपो न भविष्यति। एवन्तर्हि अन्यथा वर्णयिष्यामः । निधायैव जपति न पुनरन्यदपि किञ्चित् कृत्वाइति । किमतः ?। "अवनेजनवत् पिण्डान् दत्त्वा विल्वप्रमाणकान् । तत्याचक्षालनेनाथ पुनरप्यवनेजयेत्” । इत्युक्तं पुनरवनेजनमत्र न कर्त्तव्यम् । एतदतः ॥०॥ ११॥०॥ अपपर्यावृत्त्य पुरोच्छासादभिपर्यावर्त्तमाना जपेदमीमदन्त पितरो यथाभागमाषायिषतेति ॥ ॥१२॥ अप,-दूत्यप्रादक्षिण्यार्थम् । अप्रादक्षिण्येन पर्यावृत्त्य परिक्रम्य, वामावर्त्तनेत्यर्थः । “वामं पर्यावृत्त्य”-दूति नारायणोपाध्यायः पठति । तदा व्यक एवार्थः । दूदञ्च पर्यावर्त्तनं केचिद्दगन्तं मन्यन्ते । गौतमादयस्तु दक्षिणापर्यन्तमिच्छन्ति । तथा चोक्तम् । “वाममावर्त्तनं केचिदगन्तं प्रचक्षते ।। सव्यं गौतमशाण्डिल्यौ शाण्डिल्यायन एव च”। दूति। तेन उदङ्मुखो दक्षिणामुखो वा भूत्वा,-दूदानों प्राणान् संयम्य, 'पुरा' पूर्व, ‘उच्छासात्' प्राणविमोकात्, अमीमदन्त,इति मन्त्र जपेत् । किं कुर्वन् ? । अभिप-वर्तमानः । येनैव पथागतः, तेनैव पथा पर्यावर्त्तमानः। आगत्य च प्राणान् विमोचयेत् । तथा चोक्तम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy