SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३२ गोभिलोयं [ प्र. ९ का.] शर्मन्नादिके कार्ये शर्मा तर्पणकर्मणि । शर्मणोऽक्षय्यकाले तु कर्ता एवं न मुह्यति"। इति। इदश्च तिलोदकदानं पात्रेवेव कर्त्तव्यं न ब्राह्मण हस्तेषु । कस्मात् । “पात्रेषु उतं दद्यात्तिलोदकम्" इति वचनात् । तिलोदकदानपात्रञ्च "अासुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य नामन्ति दशवर्षाणि पञ्च च । कुलालचक्रनिष्यन्न मासुरं मृण्मयं स्मृतम् । तदेव हस्तघटितं स्याल्यादि दैविकं स्मृतम्" । इत्युक्तलक्षणं बोद्धव्यम् । आह । किमानन्तर्यात् तिलोदकमेव मन्त्रेण ददाति, उत केवलोदकमपि ?-इति । तिलोदकमेव,इति ब्रूमः । कस्मात् ? । आनन्त-देव । तथाच कर्मप्रदोपः । "वृष्णीं पृथगपो दद्या मन्त्रेण तु तिलोदकम् । इति ॥०॥ ३५ ॥०॥ अप उपस्पृश्यैवमेवेतरयाः ॥ ३६ ॥ अप उदक, उपस्पृग्य स्पृष्टा, एवमेव वृष्णीमुदकदानपूर्वकं मन्त्रण तिलोदकदानं, इतरयोः पितामहप्रपितामहयाः, नाम ग्टहीत्वा कर्त्तव्यम् । तिलोदकदानाच्च परतो गन्धोदकमपि मन्त्रेण पात्रेम्वेव दद्यात् । तथा चोक्तम् । "वृष्णीं पृथगपो दद्यान्मन्त्रेण तु तिलोदकम् । गन्धोदकञ्च दातव्यं मत्रिकर्षक्रमेण तु” । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy