SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६०० www.kobatirth.org गोभिलीयं Acharya Shri Kailassagarsuri Gyanmandir [३ प्र. १० का . ] अपः पानाय दद्यात् ॥ २३ ॥ तस्यै गवे पानायोदकं दद्यात् - मन्त्रानुपदेशात् व्याहृतित्रितयं जपन् । कथं ज्ञायते ? | "यत्र मन्त्रा न विद्यन्ते व्याहृतित्रितयं जपेत् । मन्त्राणामेव चादेशे मन्त्रात् कर्म समाचरेत्” । इति गृह्मासंग्रहवचनात् । एवमन्यचापि बोद्धव्यम् । मन्त्रानुपदेशादमन्त्रकमिति बर्णनन्तु उक्तवचनानवलेोकनेनेति हेयमेव । दुध्मादीनामेव केवलं तृष्णों करणमाचार्य्यपुत्रेणोपदिष्टम् ॥०॥ ॥ २३॥०॥ पीतशेषमधस्तात् पशोरवसिच्वेदात्तं देवेभ्यो हवि - रिति ॥ २४ ॥ तस्याः पीतावशिष्टमुदकं पशो स्तस्या एव गो रधस्तादवसिञ्चेत् अवाचीनं सिञ्चेत् श्रान्तं देवेभ्यः, -इति मन्त्रेण || ० || २४ ॥ ० ॥ अथैनामुदगुत्सृष्य संज्ञपयन्ति ॥ २५ ॥ अथ, — श्रनन्तरमेव, एनां गां उदगुत्तरस्यामग्नेरुत्सृप्य नोला मज्ञपयन्ति । कर्त्तुर नियमः । सञ्जपनं हननम् ॥ ० ॥ २५ ॥ ० ॥ कोदृशीं सञ्ज्ञपयन्ति ? । उच्यते, - प्राक्शिरसमुदक्पदीं देवदैवत्ये ॥ २६ ॥ प्राक्शिरसं पूर्व्वभिमुखशिरस्कां उदकपदी मुदङ्मुखपदीं सजपयन्ति । देवदैवत्ये, — देवानुद्दिश्य यत् क्रियते, तस्मिन् ॥० ॥ ॥ २६ ॥ ०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy