SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ प्र. १० का . ] उपस्थितायां जुहुयादेव, न तावदाज्यं संस्कुर्य्यात्, दूति । श्रथवा । श्रसादनीये श्रासादिते कर्माणः कृताकृत प्रत्यवेक्षणकर्त्तरि ब्रह्मणि चोपविष्टे तत्रापि होमस्य प्राप्तत्वात् तथा माभूदित्यानार्थं पुनर्व्वचनम् । तेन किम् ? । उपस्थितायामनन्तरमेव जुहुयादेव, न तावत् किञ्चिदपि कुर्य्यात् " - इति ॥ ० ॥ 112511011 हुत्वा गृह्यसूत्रम् । पूर्वह चानुमन्त्रयेतानुत्वामातामन्यतामिति ॥ २० ॥ डवा, अनुत्वा माता, — इति मन्त्रेण गामनुमन्त्रयेत, श्रनामिकाग्रेण स्पृशन् । हुत्वा, - इति वचनं हत्वैवानुमन्त्रयेत न तु तन्त्रसमापनमपि कृत्वा, — इत्येवमर्थम् । चशब्दश्च यवमिश्रोदका - दोनामासादनार्थः । तेन, - यत्र मिश्रमुदकं, पवित्रं, चुरः, शाखाविशाखे पलाशकाष्ठे, वर्हिः, दूध्मः, आज्यं, समिधा, स्रुवः, - इत्येतानि यथावदासाद्य, अनन्तरमनुमन्त्रयेतेत्यर्थः ॥ ० ॥२०॥ ॥ यवमतीभिरद्भिः प्राक्षेदष्टकायै त्वा जुष्टां प्राक्षामीति ॥ २१ ॥ पूर्वमासादिताभि र्यवमतोभिरद्भि गीं प्रोक्षेत्-प्रकर्षेण सिञ्चेत् अष्टकाये, - इति मन्त्रेण ॥ ० ॥ २१ ॥ ० ॥ -- उल्मुकेन परिहरेत् परिवाजपतिः कविरिति ॥ २२ ॥ उल्मुकमलातमित्यनर्थान्तरम् । तेन गां परिहरेत् प्रदक्षिणोकुर्य्यात् परिवाजपतिरिति मन्त्रेण ॥ ० ॥ २२॥ ० ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy