SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६४ गोभिलीयं [३ प्र. १० का.] अष्टौ चापूपान् कपालेऽपरिवर्तयन् ॥ ११ ॥ अष्टमङ्ख्याकान् अपूपान् मण्ड कान्। तथा चोक्तम् । "त्रैयम्बकं करतलमपूपा मण्डकाः स्मृताः । पालाशा गोल काश्चैव लोहचूर्णञ्च चीवरम"। इति। कपाले, “कपालं मृण्मयं पात्रं चक्राघटितमुच्यते । प्रासुरं चक्रघटितं दैवे पैत्रे च वर्जयेत्' । इत्यकलक्षणे, अपरिवर्तयन् परिवर्तनमकुर्वन् । चशब्दात् श्रपयति, इत्यनुषज्य ते ॥ ० ॥ ११ ॥॥ किमेकस्मिन्नेव. कपाले अष्टावपूपान् अपयति? । न । कथन्तईि? । उच्यते, एककपालान् ॥ १२॥ एकै ककपालान-इत्यर्थः । तथाच, एकैकस्मिन् कपाले एकैकमपपं श्रपयति । कथं ज्ञायते ?। सूत्रारम्भस्यार्थवत्त्व दित्याह । कपाले, इत्येतावन्मात्रसूत्रणादप्यविशेषादेकस्मिन्नेव कपाले भविष्यति, किं सूत्रान्तरारोण ?। तस्मात् सूत्रान्तरारम्भादवगच्छामः,-एकैकस्मिन् कपाले एकैकस्यापूपस्य श्रपणम्-इति। ननु, अविशेषात् वे चोणि वा कपालान्यपि प्राप्नुवन्ति ? । प्राप्नुवन्तु नाम, तावताप्ये कस्मिन् कपाले क्रियत एव। क्रियते चेत, तत्रैव क्रियताम् , अलं कपालान्तरकल्पनया ?। तस्मादेकैककपालान्-इत्यस्मद कैव वर्णना। तथा चोक्तम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy