SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्वतथागताधिष्ठान सत्त्वावलोकन- बुद्धक्षेत्र सन्दर्शन- व्यूहम् सेचं कृत्वा शुचे सतथागतस्थाने महता धूपपुष्पगन्धदीपैः पूजां कृत्वा त्रिस्कृत्वा अष्टशतिको जापो दातव्यः । तथागतस्य पूजा कर्तव्या। सर्वतथागतानां नमस्कृत्य चत्वारि पूर्णकुम्भा[[नि] स्थाप्य रक्तचन्दनमयं मण्डलं कृत्वा श्वेतवस्त्रप्रावृतेन एकाग्रमानसेन चतुर्दिशे च रसगन्धमद्यपायसवलिं दत्त्वा अष्टशतसुमनःपुष्पैः वज्रपाणिराहर्तव्यः । यावत् पञ्चदशी ततो महानिर्घोषो भविष्यति पृथिवीकम्पश्च रश्मयो निश्चरिष्यन्ति । ततो यथेप्सितं वरं दास्यामि । सर्वकर्माणि सर्वकार्याणि जपितमात्रेण समृद्धिष्यन्ति । विगत - व्याधयो चिरजीवी सर्वपापविवर्जितो भविष्यति । गुणसहस्रं प्रति - लप्स्यते । मरणकाले च बुद्धं पश्यति । अहं च दर्शनं दास्यामि । अथ भगवान् साधुकारमदात् । साधु साधु वज्रपाणे अनतिक्रमणीया इयं मुद्रा । नात्र कांक्षा न विमतिर्न विचिकित्सा कर्तव्या सदेवकेन लोकेन । III Acharya Shri Kailassagarsuri Gyanmandir ५६ अथ मंजुश्री कुमारभूतो भगवन्तमेतदवोचत् । केनार्थे - नायं भगवन् सर्वतथागताधिष्ठानसत्त्वावलोकन बुद्ध क्षेत्रसन्दर्शनव्यूहो नाम समाधिरुच्यते । भगवानाह । सर्वतथागतानाम For Private and Personal Use Only 1 Tib. རོ་དང་ལྡན་པ་དང་དྲི་དང་ལྡན་པ་དང་ སྐེམས་དང་ འོ་ཐུག་ གི་གཏོན་མ །
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy