SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वानुस्मृतस्य सदूपेण स्फुरणरूपेणच सर्वतादात्म्येन प्रतीत्युपपत्तेः स्फुरणस्यापि सर्वानुस्यूतत्वेनैकत्वानित्यत्वं विस्तरेणाग्रिमलोके व. क्यते तथाच यथा कस्मिंश्चिदेशे कालेवा (घटस्य पटादेर्न देशान्तरे कालान्तरेवाबटत्वं एवं कस्मिंश्चिद्देशे कालेवा घटस्यान्यत्राघटत्वं शक्रेणापि न शक्यते संपादयितुं पदार्थस्वभावभगायोगात् एवं कस्मिाश्चिदेशे कालेवा(सतो देशान्तरे कालान्तरेवा सत्त्वं कस्मिविदेशे कालेचा सतोन्यत्रासत्वं नशक्यते संपादयितुं युक्तिसामान्यात् अतउभयोर्नियतरूपत्वमेव द्रष्टच्यामित्यद्वैतसिद्धी विस्तरः अतः सदेव | वस्तु मायाकल्पिताऽसन्निवृत्त्याऽमृतत्त्वाय कल्पते सन्मात्रदृष्ट्या च तितिक्षाप्युपपद्यत इतिभावः // 16 // नन्वेतादृशस्य सतोजाना दे परिच्छिन्नत्वापत्तेर्ज्ञानात्मकत्वमभ्युपेयं तच्चानाध्यासिकं अन्यथा जडत्वापत्तेः तथा चानाध्यासिकज्ञानरूपत्वस्य सतोधात्वर्थत्वादुत्पत्तिविनाशवत्वं घटज्ञानमुत्पन्न घटज्ञानं नष्टमितिमतीतेश्च एवं चाहं घट जानामीतिप्रतीतेस्तस्य साश्रयत्वं सविषयत्वंचेति देशकालवस्तुपरि-1 च्छिन्नत्वात्स्फुरणस्य कथं तद्रूपस्य सतोदेशकालवस्तुपरिच्छेदशून्यत्वमित्याशझ्याह विनाशोदेशतः कालतोवस्तुनोत्रा परिच्छेदः सो अविनाशि तु तद्विद्धि येन सर्वमिदं ततं // विनाशमव्ययस्यास्य नकश्चित्कर्तुमर्हति // 37 // | स्यास्तीति विनाशि परिच्छिन्नं तद्विलक्षण अविनाशि सर्वप्रकारपरिच्छेदझून्यं एव तत् सर्प स्फुरणं वं विद्धि जानीहि किंतत् येन सद्रूपेण स्फुरणेनैकेन नित्येन विभुना सर्वमिदं दृश्यजातं स्वतः सत्तास्फूर्तिशून्यं ततं व्याप्त स्वसत्तास्फूर्त्यध्यासेन रज्जुशकलेनेव सर्पधारादि स्वस्मिन्समात्रशितं तदविनाश्येव विद्रीत्यर्थः कस्मात् यस्मात् विनाशं परिच्छेदं अव्ययस्यापरिच्छन्नस्य अस्य अपरोक्षस्य सर्वानुस्यूतस्य स्फुरणरूपस्य सतः कश्चित् कोपि आश्रयोवा विषयोवा इन्द्रियसन्निकर्षादिरूपोहेनुर्वा नकर्तुमर्हति समर्थोन भवति कल्लितस्या काल्पतपरिच्छेदकतायोगात् आरोपमात्रे चेष्टापत्तेः अहं घटं जानामीत्यत्र हि अहङ्कारआयतया भासते घटस्तु विषयतया उत्पत्तिविनाशवती काचिदहकारयत्तिस्तु सर्वतोधिप्रसृतस्य सतः स्फुरणस्य व्यञ्जकतया आत्ममनोयोगस्य परैरपि ज्ञानहेतुत्वाभ्युपगमात् तदुत्पत्तिविनाशेनैवच तदुपहिते स्फुरणरूपे सत्युत्पत्तिविनाशपतीत्युपपत्ते कस्य स्फुरणस्य स्वतउत्पत्तिविनाशकल्पनाप्रसङ्गः ध्वन्यवच्छेदेन शब्दबटाद्यवच्छेदेनाकाशवच्च अहङ्कारस्तु तस्मिन्नध्यस्तोपि तदाश्रयतया भासते तवृत्तितादात्म्याध्यासात् सुषुप्तौ अहङ्काराभावेपि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy