SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. च तत्स्वकारणे सूक्ष्मरूपेण तिष्ठत्येव यतः पुनस्तत्पापम्पचिनोति पुरुषः इदं तु अनेकजन्मसहस्रसंचिताना सर्वेषामपि पापानां स्थूलसूक्ष्मावस्थानां तत्कारणस्य चाज्ञानस्य सद्यएवोच्छेदक अनः सर्वोत्तमं पावनमिदमेव नचातीन्द्रिये धर्महवात्र कस्यचित्संदेहः स्वरूपतः फलतश्च प्रत्यक्षवादित्याह प्रत्यक्षावगमं अवगम्यतेऽनेनेत्यवगमामानं अगम्यो प्राप्यतहत्य गमः फलं प्रत्यक्षमवगमोमानमास्मिन्निति स्वरूपतः साक्षिप्रत्यक्षत्वं प्रत्यक्षोऽवगमोऽस्यति फलतः साक्षिप्रत्यक्षवं मयेदं विदितमतानष्टमिदानीमत्रममाज्ञानमिति हि सार्वलौकिकः साक्ष्यनुभवः एवं लोकानुभवसिद्धत्वेऽपि तज्ज्ञानं धर्म्य धर्मादनसेनं अनेकजन्मसांचेतनिष्कामधर्मफलं तर्हि दुःसम्पादं स्यान्नेस्याह सुसुखं कर्नु गुरूपदर्शितविचारसहकृतेन वेदान्तवाक्येन सुखेन कर्नु शक्यं न देशकालादिव्यवधानमपेक्षते प्र| माणवस्तुपरनम्त्रत्वाज्ज्ञानस्य एवमनायाससाध्यस्खे स्वल्पफलत्वं स्यादत्यायाससाध्यानामेव कर्मणां महाफलत्वदर्शनादिति नेत्याह। राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् // प्रत्यक्षावगमं धर्म्य सुसुखं कर्तुमव्ययम् // 2 // अश्रद्दधानाः पुरुषाधर्मस्यास्य परंतप // अप्राप्य मां निवर्तन्ते मृत्युसंसारवमनि // 3 // |अव्ययं एवमनायाससाध्यस्याप्यस्य फलतोव्ययोनास्तीत्यव्ययमक्षयफलमित्यर्थः कर्मणां वतिमहतामपि क्षयिफलस्वमेव योवा| एतदक्षरं गार्यविदित्वास्मिन्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवतीतिः श्रुतेः तस्मात्सर्वोत्कृष्टत्वाच्छदेयमेवात्मज्ञानम् // 2 // एवमप्यस्य सुकरखे सर्वोत्कृष्टस्त्रे च सर्वेऽपि कृतोत्र न प्रवर्तन्ते तथा च न कोणपे संसारी स्यादितआह|| अस्यात्मज्ञानाख्यस्य धर्मस्य स्वरूपे साधने फले च शास्त्रप्रतिपादितेऽपि अश्रधानाः वेदविरोधि कुहेतुदर्शन दूषितान्तःकरणतया प्रामाण्यममन्यमानाः पापकारिणोऽसुरसम्पदमारूहाः स्वमतिकल्पितेनोपायेन कथञ्चिद्यतमानाअपि शास्त्रविहितोपायाभावादप्राप्य मां मत्प्राप्तिसाधनमप्यलब्ध्वा निवर्तन्ते निश्रयेन वर्तन्ते क मृत्युयुक्ते संसारवमनि सर्वदा जननमरणप्रबन्धेन नारकितिर्यगादि| योनिष्वेव भ्रमन्तीत्यर्थः // 3 // तदेवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधिमुखेनेतरनिषेधमुखेन च स्तुत्याभिमुखीकृतमर्जुनप्रति तदेवाह For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy