SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 88 // त्वमवोचः प्रारब्धभोगेन कर्मणा तत्त्वज्ञानादपि प्रबलेन वफलदानाय मनसोत्तिषूत्पाद्यमानासु कथं तासां निरोधः कर्तुं शक्यइति तत्रोच्यते उत्पन्नपि तत्त्वसाक्षात्कारे वेदान्तव्याख्यानादिव्यासङ्गादालस्यादिदोषाद्वाऽभ्यासवैराग्याभ्यां न संयतोनिरुद्धआत्मान्तःकरणं येन तेनासयतात्मना तत्त्वसाक्षात्कारवतापि योगोमनोवृत्तिनिरोधः दुष्पापः दुःखेनापि प्राप्तुं न शक्यते प्रारम्धकर्मकृताञ्चित्तचाञ्चल्यादिति चेत्त्वं वदसि तत्र मे मतिः मम संमतिस्तत्तथैवेत्यर्थः केन ताई प्राप्यते उच्यते वश्यात्मना तु वैराग्यपरिपाकेन वासनाक्षये सति वश्यः स्वाधीनोविषयपारतन्त्र्यशून्यआत्मान्तःकरणं यस्य तेन तु शब्दोऽसंयतात्मनोवैलक्ष्यण्यद्योतनार्थोऽवधारणार्थोवा एतादृशेनापि यतता यत मानेन वैराग्येण विषयस्रोतःखिलीकरणेप्यात्मस्रोतउद्घाटनार्थमभ्यास प्रागुक्तं कुर्वता योगः सर्वचित्तवत्तिनिरोधः शक्योवा चित्तचाञ्चल्यनिमित्तानि प्रारब्धकर्माण्यप्याभिभूय प्राप्तुं शक्यः कथमतिबलवतामारब्धभीगानां कर्मणामभिभवः उच्यते उपायतः उपायात् उपायः पुरुषकारस्तस्य लौकिकस्य वैदिकस्य वा प्रारब्धकर्मापेक्षया असंयतात्मना योगोदुष्प्रापइति मे मतिः // वश्यात्मना तु यतता शक्योवाऽसुमुपायतः // 36 // प्राबल्यात् अन्यथा लौकिकानां कृष्यादिप्रयलस्य वैदिकानां ज्योतिष्टोमादिप्रयत्नस्य च वैयर्थ्यांपत्तेः सर्वत्र प्रारब्धकर्म सदसत्त्वविकल्पग्रासापारब्धकर्मसत्त्वे ततएव फलप्राप्तः किं पौरुषेण प्रयत्नेन तदसत्वे तु सर्वथा फलाऽसंभवास्किं तेनेति अथ कमणः स्वयमष्टरूपस्य दृष्टसाधनसम्पत्तिव्यतिरेकेण फलजननासमर्थत्वादपेक्षितः कृष्यादौ पुरुषप्रयत्नइति चेन योगा-1 भ्यासेपि समं समाधान तत्साध्यायाः जीवन्मुक्तेरपि सुखातिशयरूपत्वेन प्रारब्धकर्मफलान्तर्भावात् अथवा यथा प्रारब्धकर्मफलं तत्त्वज्ञानात्मवलमिति कल्प्यते ( कथ्यते ) दृष्टत्वात् तथा तस्मादपि कर्मणोयोगाभ्यासः प्रबलोस्तु शास्त्रीयस्य प्रयत्नस्य सर्वत्र ततः प्राबल्यदर्शनात् तथा चाह भगवान् वसिष्टः 'सर्वमेवेह हिसदा संसारे रघुनन्दन सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते उच्छास्त्र शास्त्रितं चेति पौरुषं विविध स्मृतं तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्वितं। शास्त्रप्रतिषिद्धं अनर्थाय नरकाय शास्त्रितं शास्वविहितं अन्तःकरणशुद्धिद्वारा परमार्थाय चतुर्वर्थेषु परमाय मोक्षाय शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासना सरित पौ // 88 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy