SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वाद्बाधितानुवृत्त्यापि बन्धोभवति चित्तवृत्तिनिरोधरूपेण तु योगेन तस्य निवारणं जीवन्मुक्तिरित्युच्यते यस्याः सम्पादनेन सयोगी परमोमतइत्युक्तं तत्रेदमुच्यते बन्धः कि साक्षिणोनिवार्यते किं वा चित्तात् नाद्यस्तत्त्वज्ञानेनैव साक्षिणोबन्धस्य निवारितत्वात् न द्वितीयः स्वभावविपर्ययायोगात विरोधिसद्भावाच न हि जलादाईत्वमग्नेऊष्णत्वं निवारयितुं शक्यते 'प्रतिक्षणपरिणामिनोहि भावारते चित्तिशक्ते| रितिन्यायेन' प्रतिक्षणपरिणामस्वभावत्वाचित्तस्य पारब्धभोगेन च कर्मणा कृत्स्नाऽविद्यातत्कार्यनाशने प्रवृत्तस्य तत्त्वज्ञानस्यापि प्रतिबन्धं कृत्वा स्वफलदानाय देहेन्द्रियादिकमवस्थापितं न च कर्मणा स्वफलसुखदुःखादिभोगश्चित्तवृत्तिभिावना सम्पादयितुं शक्यते तस्माद्यद्यपि स्वाभाविकानामपि चित्तपरिणामानां कथंचिद्योगेनाभिभवः शक्येत कर्नु तथापि तत्त्वज्ञानादिव योगादपि प्रारम्धफलस्य कर्मणः प्राबल्यादवश्यंभाविनि चित्तस्य चाञ्चल्ये योगेन तनिवारणमशक्यमहं स्वबोधादेव मन्ये तस्मादनुपपन्नमेतदात्मौपम्येन सर्वत्र समदर्शी परमोयोगी मतइत्यर्जुनस्याक्षेपः // 34 // तमिममाक्षेपं परिहरन् सम्यग्विदितं ते चित्तचेष्टितमतोनिग्रहीतुं शक्ष्यसीति // श्रीभगवानुवाच // असंशयं महावाहो मनोदुनिग्रहं चलम् // अभ्यासेनतु कौन्तेय वै- || राग्येण च गृह्यते // 35 // संतोषेण संबोधयति हे महावाहो महान्तौ साक्षान्महादेवेनापि सह कृतप्रहरणौ बाहू यस्येति निरतिशयमुत्कर्ष सूचयति पारब्धकर्मप्राबल्यादसंयतात्मना दुर्निग्रहं दुःखेनापि नियहीनुमशक्यं प्रमाथि बलवदृढमिति विशेषणत्रयं पिण्डीकृत्यैतदुक्तं चल स्वभाव चञ्चल मनइत्यसंशयं नास्त्येव संशयोत्र सत्यमेवैतद्ववीपीत्यर्थः एवं सत्यपि संयतात्मना समाधिमात्रीपायेन योगिनाऽभ्यासेन वैराग्येण च गृह्यते निगद्यते सर्ववत्तिशून्यं क्रियते तन्मनइत्यर्थः अनियहीतुरसंयतात्मनः सकाशात्संयतात्मनोनिग्रहीनुर्विशेषद्योतनाय तुशब्दः मनो. नियहे ऽभ्यासवैराग्ययोः समुच्चयबोधनाय चशब्दः हेकौन्तेयेतिपितृष्वसुपुत्रस्त्वमवश्यं मया सुखीकर्तव्यइति स्नेहसंबन्धसूचनेनाश्वासयति अत्रप्रथमार्धन वित्तस्य हटनिग्रहोन संभवतीति द्वितीयान तु क्रमानियहः संभवतीत्युक्तं द्विविधोहि मनसोनिग्रहः हठेन क्रमेण च तत्र चक्षुःश्रोत्रादीनि ज्ञानेन्द्रियाणि बापाण्यादीनि कर्मेन्द्रियाणित्र दोलकमात्रोपरोधन हान्निगृह्यन्ते तदृष्टान्तेन मनेपि हडेन निग्रहीष्यामीति मृदस्य भ्रान्तिर्भवति न च तथा नित्रहीतुं शम्यते तदोलकस्य त्वृदयकमलस्य निरोद्धमशक्यत्वात् | For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy