SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. कुम्भकाभ्यासेन विलापयन्तीत्यर्थः तदेतत्तवं भगवता पतञ्जलिना सङ्केपविस्ताराभ्यां सत्रितं तत्र संवेपसूत्र तस्मिन्सनि श्रासप्रश्वासयोगतिविच्छेदलक्षणः प्राणायामइति। तस्मिन्नासने स्थिरेसति प्राणायामोनुठेयः कीदृशः श्रासप्रश्वासयोर्गतिविच्छेदलक्षणः श्रासप्रश्वासयोः प्राणापानधर्मयोर्या गतिः पुरुषप्रयलमन्त्तरेण स्वाभाविकप्रवहणं क्रमेण युगपञ्च पुरुषप्रयत्नविशेषेण तस्याविच्छेदोनिरोधएव लक्षणं स्वरूप यस्य सतथेति एतदेव विवृणोति बायाभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्कच्याभिः परिदृष्टोदीर्घसूक्ष्म इति बाह्यगतिनिरोधरूपत्वाबाह्यवृत्तिः पूरकः आन्तरगतिनिरोधरूपत्वादान्तरवृत्ती रेचकः कौश्चित्तु बाह्यशद्वेन रेचकः आन्तरशद्वेन च अपाने जुन्हति प्राणं प्राणेऽपानं तथाऽपरे // प्राणापानगती रुध्वा प्राणायामपरायणाः // 29 // अपरे नियताहाराः प्राणान्प्राणेषु जुव्हति // सर्वेऽप्यते यज्ञविदोयज्ञक्षपितकल्मपाः // 30 // यज्ञशिष्टामृतभुजोयान्ति ब्रह्म सनातनम् // नायं लोकोस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम // 31 // 保存的民的条长长的行 पुरकोव्याख्यातः युगपदुभयगतिनिरोधस्तम्भस्तदृत्तिः कुम्भकः तदुक्तं यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात्प्रयत्नादभावोभवति न . पुनः पूर्ववढापूरणप्रयत्नोपविधारणं नापि रेचनप्रयत्नाचविधारगं तु यथा नग्न उपले निहितं जलं परिशुज्यत्सर्वतः सङ्कोचमापद्यते एवमयमपि मारतोवहनशीलोबलवहिवारकप्रयत्नावरुद्धक्रियः शरीरएव सूक्ष्मभूतोवतिष्ठते नतु पुरयति येन पूरकः नतु रेचयति येन रेचकइति त्रिविधोऽयं प्राणायामोदेशन कालेन सङ्ख्यया च परीक्षितोदीर्घसत्मसंज्ञोभवति यथा घनीभूनस्तुलपिण्डः प्रसार्यमाणोविरलतया दीर्घः सूक्ष्मश्च भवति तथा प्राणोपि देशकाठसङ्ख्याधिक्येनाभ्यस्यमानोदीघाँदुर्लक्ष्यतया सत्मोपि संपद्यते तथाहि दृदयानिर्गत्य For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy