SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir क्तास्तएव जात्याद्यनवच्छेदेन दृढभूमयोमहावतशब्दवाच्याः तत्राहिंसा जात्यवच्छिन्ना यथा मृगयोमगानिरिक्तान हनिष्यामीति देशाव च्छिन्ना न तीर्थे हनिष्यामीति सैव कालावारिछन्ना यथा न चतुर्दश्यां न पुण्येहनीति सैव प्रयोजनविशेषरूपसमयावच्छिन्ना यथा क्षत्रियस्य हादेवब्राह्मणप्रयोजनव्यतिरेकेण न हनिष्यामीति युद्धं विना न हनिष्यामीति च एवं विवाहादिप्रयोजनव्यतिरेकेणानृतं न वदिष्यामीति एवमा पत्कालव्यतिरेकेण क्षुद्याद्यतिरिक्तःस्तेयं न करियामीनि च एवमतव्यातिरिक्तकाले पत्नी न गमिष्यामीति एवं गुर्वादिप्रयोजनमन्तरेण न परिग्रहीष्यामीति यथायोग्यमवच्छेदोद्रष्टव्यः एतादृगवच्छेदपरिहारेण यदा सर्वजातिसर्वदेशसर्वकालसर्वप्रयोजनेषु भवाः सार्वभौमाः अहिंसाद. योभवन्ति महता प्रयत्लेन परिपाल्यमानत्वात् तदा ते महानतशब्देनोच्यन्ते एवं काठमौनादिव्रतमपि द्रष्टव्यं एतादृशक्तदाढर्थे च कामक्रोधलोभमोहानां चतुर्णामपि नरकहारभूतानां निवृत्तिः तत्राहिंसया क्षमया क्रोधस्य ब्रह्मचर्येण वस्तुविचारेण कामस्य अस्तेयापरिग्रहरूपेण स. द्रव्यज्ञास्तपोयज्ञायोगयज्ञास्तथापरे / स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः // 28 // |न्तोषेण लोभस्य सत्येन यथार्थज्ञानरूपेण विवेकेन मोहस्य तन्मूलानांच सर्वेषां निवृत्तिरिति द्रष्टव्यं इतराणिच फलानि सकामानां योगशास्त्रे कथितानि // 28 // प्राणायामयज्ञमार सार्धन अपाने अपानवत्ती जुव्हति प्रक्षिपन्ति प्राणवर्ति बाद्यवायोः शरीराभ्यन्तरप्रवेशेन पूरकाख्यं प्राणायाम कुर्वन्तीत्यर्थः प्राणेऽपानं तथाऽपरे जुब्हति शारीरवायोबहिर्निर्गमनेन रेचकाख्यं प्राणायाम कुर्वन्तीत्यर्थः पूरकरेचककथनेन च तदविनाभूतादिविधः कुम्भकोपि कथितएव यथाशक्तिवायुमापूर्यानन्तरं श्रासप्रश्वासनिरोधः क्रियमाणोन्तःकुम्भकः यथाशक्तिसर्ववायं विरेच्यानन्तरं क्रियमाणोचाहिःकुम्भकः एतत्प्राणायामत्रयानुवादपूर्वकं चतुर्थ कुम्भकमाह प्राणापानगती मुखनासिकाभ्यामान्तरस्य वायोर्बहिनिर्गमः श्वासः प्राणस्य गतिः बहिनिर्गतस्यान्तःप्रवेशः प्रश्वासोऽपानस्यगतिः तत्र पूरके प्राण गतिनिरोधः रेचकेऽपानगतिनिरोधः कुम्भकेतूभयगतिनिरोधहति क्रमेण युगपञ्च श्वासप्रश्वासाख्ये प्राणापान गती रुध्वा प्राणायामपरायणाः सन्तोऽपरे पूर्वावलक्षणाः नियताहाराः आहारनियमादियोगसाधनविशिष्टाः प्राणे बायाभ्यन्तरकुम्भकाभ्यासनिगृहीतेषु प्राणान् ज्ञानेन्द्रियकर्मेन्द्रियरूपान् जुब्हति चतुर्थ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy