SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ 11411 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीभवद्वाण्या महानतिशयः, अतः श्रोतुः कष्टं न भवति । क्षुत्तृट् च न लगति । तत्र दृष्टान्तमाहएकस्मिन् ग्रामे एको वणिग् वसति । तस्य गृहे एका वृद्धा कर्मकरा भारवाहिका वर्तते । सैकदा वने समित्काष्टभारमाहर्तुं गता । मध्याहूने क्षुत्पीडिता इन्धनं गृहीत्वा तस्य गृहे समागता । श्रेष्टिना सा दृष्टा, पृष्टा च " इन्धनं स्तोकं कथमानीतं ? पुनरपि त्वं वने याहि, पश्चादागत्य भोक्तव्यम् । " तदा सा वृद्धा क्षुत्पीडिता वने गता, पुनवेन्धनं गृहीत्वा शिरस्युत्पाटय चलिता । मार्गे चरणस्खलनत एकमिन्धनं पतितं, तदा सा तद् ग्रहीतुं नम्रीभूता । इतस्तस्मिन् वने श्रीवीरः समवसृतः सन् देशनां ददाति भव्यानामग्रे तृतीयप्रहरे । तदा तया वृद्धया सा जिनवाणी श्रुता । तद्विमहात्म्यतस्तस्याः क्षुद् गता दडपि गता । तद्गिरास्वादनतस्तत्रैव सा स्थिता । तदा गौतमस्तां तत्रैव तथावस्थां स्थितां वा श्रवीरं प्रति कथयति - " हे भगवन् ! इयं वृद्धा कथमत्रैवैवं स्थितास्ति । " तदा भगवता प्रोक्तम् - " भो गौतम ! अद्वाणप्रभात इयं स्थिताऽस्ति " । ततः श्रीवीरमुखात् सर्वैरपि तस्या वृत्तान्तः श्रुतः । तदा ते चिन्तयितुं लग्ना 'अहो वीतरागवाण्या महानतिशयो वर्तते ' । अथ देशनानन्तरं सा गृहे समागता, तदा श्रेष्ठिनोक्तम् - " त्वं कथं शीघ्रं नायाता ? " तयोक्तम् - " भो श्रेष्टिन् ! मयाजिनवाणी बने श्रुता, तद्रसेन च मदीया क्षुत्तृषा च प्रशान्ता तेन कारणेन चाहं शीघ्रं नायाता " । पश्चात्तया श्री जिनधर्मोपरि भावः समुत्पादितः, तेन च सा सुखिनी जाता । अत एव धर्मेच्छुभिर्जिनवाणी श्रोतव्या || अथ श्रीमहावीरस्वामी पूर्वोक्ताऽष्टचत्वारिंशत्प्रश्नानामुत्तराणि श्री गौतम गणधरं प्रति कथयति । तत्र प्रथमप्रश्नः यथा For Private And Personal Use Only **************** प्रथममश्नः ॥ ५॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy