SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir J॥२६॥ तदनुज्ञातु भवान् तत्र गन्तुं मामिति । तछुत्वा राजोवाच । हे पुत्र ! त्वया तत्र गमनेच्छा न कर्तव्या यतो राजानः स्वराजधानी त्यक्त्वा न हि स्थानान्तरं गच्छन्ति अस्माकमपि श्रेणिकेन सहात्रस्थितानामेव मैत्र्यमस्ति इति पित्रा ह्यनुज्ञप्तो राजकुमारो विषण्णवदन| स्मन् स्वगृहमेव तस्थौ परं शयने भोजने याने च तन्मनास प्रतिक्षणं तदेव तद्दर्शनेहासीत एवं कियद्भिर्दिवसस्तन्मिलनचिन्तया जर्जस्तिशरीरं विषण्णवदन राजकुमारं विलोक्य आईक इत्थमचिन्तयत् । अहो ! यद्यप्ययं मया निरुद्धस्तथापि अस्य मनस्तु तत्रैव संल| नमस्त्यतोयमवश्यं शीघ्र तत्र प्रेषणीयः नचेकदाचिन्मामकथयैव गमिष्यति चेन्महानकष्टो भविष्यति । अतस्तान्प्रेषणे यत्नो विधेय इति निश्चित्य बहून सामन्तान् सेनया सहितान् तदक्षणाय नियुज्य पुत्रमाहूय मधुखाग्भिः समाश्वास्य तंत्र गमनायाज्ञामदात् । राजकुमारश्चातीव प्रीतिमनाः पितरं नमस्कृत्य बहून्यनर्घाणि रत्नानि तां च जिनप्रतिमां ॥२६॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy