SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० २३॥ | तान्युपनीतानि प्राभृतानि राजाग्रे समर्प्य तदनुज्ञातः प्रत्याजगाम । आईकस्तंप्रत्यागतं दृष्ट्वा पप्रच्छ भो मंत्रिन ! मद्वंधोः श्रेणिकस्य कुशलं वर्तते तच्छुत्वा तेन सर्व तत्रत्यकुशलवृत्तादिकं निवेदितं । तदाकर्ण्य राज्ञो मनसि परमानन्दो जातः । आईककुमारस्तस्मिन्नगावसरे तत्रस्थित एतदृष्ट्वा पितरं पप्रच्छ भो त त! कः सः श्रेणिको येन सह भवतामेतादृशी | प्रीतिर्वर्तते । राजा प्रोवाच, पुत्र ! स श्रेणिको मगधदेशाधिपतिरस्ति तत्कुलेन सहरमाकं पारम्प-गता प्रीतिरस्ति । एतत्पितृवचः श्रुत्वा जाताल्हादेन कुमारेण मन्त्रिणः प्रत्युक्तं भो | मंत्रिन ! तस्य श्रीणकस्य सर्वगुणोपेतः कश्चित्धुत्रोप्यस्ति किं? येन सहाहमपि मैत्री कुर्यासं । मन्त्रिणोक्तं भवन् ! तस्याभयकुमारनामा सर्वकलानिधिर्बुद्धिसम्पन्नो महादानी नृपनीतिदक्षः कृतज्ञो सकलशास्त्रपारदृशा राजकुमारोस्ति, किंबहुना ते केपि जगति गुणा | एव न सन्ति ये अभयकुमारे न निवसन्ति । एवं मन्त्रिमुग्वतो अभयकुमारगुणान् । || २३।। For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy