________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
।१७॥
सप्तमे भोगोपभोगवते पञ्चातीचारा यथा । सञ्चित्तं भक्षेण कृतनियमस्य | | कृततत्परिमाणस्य वा पुंसः सञ्चित्तं यदाडिमादिफलं तद्भक्षणम् १ पक्काम्रफलादि | सञ्चितप्रतिवद्धं तद्भक्षणम् २ अचालित कणक्कादि भक्षणम् ३ पृथुकादि दृष्यवस्तुभक्षणम् | ४ अतृप्तिजनकाः लघुवीजा औषधयस्तुच्छोषधयस्तासां भक्षणम् ५ इति । | अष्टमे अनर्थ दण्डविरमणे पञ्चातीचाराः। यथा । कामोद्दीपकशास्त्राभ्यासः कान्दर्पः १ मुखाक्षिभूविकारावेक्षणं कौटिल्यम् २ गाल्याद्यसंवद्धप्रलापित्वं मौख्य ३ संयुक्तस्य मुशल. | घाट्टादेर्धारणं सयुंक्ताधिकरणम् ४ स्नानादिसमये अधिकतैलमृत्तिकादीनां सम्मेलन | सरोवरादिषु स्नानादिकरणेन पृथिव्यादीनां निरोधनं भोगोपभोगातिरेकः ५ इति ।
___अथ नवमे सामायिकवते पञ्चातीचारा यथा । मनसि पापव्यापारचिन्तनं मनो | दुःप्रणिधानं १ विकथाकरणं वागदुःप्रणिधानम् २ अप्रतिलेखिते स्थाने हस्ताक्षेपणं कायदुः
॥१७॥
For Private and Personal Use Only