SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir द्वादशपर्व कार्तिकपूर्णिमा कथा कथा-संग्रह connecranecoomenon02 आन्तरचक्षुषा नैवा-ऽभव्यदुर्भव्यपापिनः ॥८४॥ नवनवतिवारांस्त-यात्रार्चादिविधानतः । षष्ठाष्टमतपःपूर्व, महती निर्जरा भवेत् ॥८५॥ पुनस्तत्र चतुर्मासी, कुर्वतो दानमर्पतः। सप्तक्षेत्रे निज द्रव्यं, वपतः स्यान्महाफलम् ॥८६॥ अनादिभवचक्रेषु, प्राणिनां भ्रमतामयम् । तीर्थराजोऽस्ति विश्राम-भूतो निर्भयकारकः ॥८७॥ प्राप्य नरभवं सिद्धा-ऽचळयात्रा:चनादिकम् । न कृतं येन भावेन, स ज्ञेयो दुःखिशेखरः ॥ ८८॥ शत्रुञ्जयप्रभावेणा-ऽतिनिन्धकर्मकारिणः । भवन्ति निर्मलाः शुद्ध-प्रवृत्तिकारिणः पुनः ॥८९॥ द्विकोटिमुनिभिः साई, श्रीसागरमुनिः पुनः । सिद्धाचले ययौ मोक्ष-मक्षयमुखशाश्वतम् ॥१०॥ कोटिभिर्मुनिभिः सार्द्ध, श्रीसारोगाच्छिवं पुनः। सोममुनित्रयोदश-कोटिभिर्मुनिभिगिरौ ॥११॥ पुनरादित्यकान्त्याख्य-मुनिलक्षकसाधुभिः । चतुर्दशसहस्राय-दभितारी शिवं गतः ॥९२॥ स सप्तदशकोव्याऽऽर्यो-ऽजितसेनमुनीश्वरः। आनन्दरक्षितौ साधू, सिद्धाचले शिवं गतौ ॥९॥ शिवंगतश्च कालाशी, चैकसहस्रसाधुभिः, समं सप्तशतायश्चा-त्र समुद्रमुनिः पुनः ॥९॥ रामचन्द्र मुनिः कोटि-मुनिभिर्भरतः पुनः। नारदमुनियावच्चा-पुत्रस्तत्र शिवं ययौ ॥१५॥ पाण्डवपञ्चकं सार्द्ध-विंशतिकोटिसाधुभिः। शैलकः पन्थकश्चापि, शुकमुनिः शिवं ययौ ॥९६॥ प्रद्युम्नशाम्बसाधुश्च, सार्द्धत्रिकोटिसाधुभिः। तत्र शिवं गतावेव-मनेके मुनयः पुनः॥९७॥ पुनरनेकशः साध्व्यो, दाद्याः शिवं ययुः । समूळाखिलकारी-नुत्खात्य विमलाचले ॥९८॥ समाराध्य च संस्पश्य, सुतीर्थ विमलाचलम् । अनेके भूचरा विद्या-धराः शिवालयं गताः ॥९९॥ यन्नामस्मरणात्क्रूराः, श्वापदाः प्रभवन्ति न । अनिष्टकारिणश्चौरा, उपद्रोतुं सुराधमाः ॥१०॥ यत्रामस्मरणादत्र, परत्र सर्वसम्पदम् । क्रमाच्छिवसुखं चानु-भवन्ति भव्यजंतवः ॥१०१॥ श्रीखर Dome20Bepependena For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy