SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७६ काव्यमाला | त्वय्यागते मणिशिलाकृतविष्टरार्थः शैलः करोति सकलामयमातिथेयीम् ॥ ४९ ॥ उद्दामसामोद्भवचीत्कृतानां प्रत्यारवैर्भूरिदरीमुखोत्थैः । त्वत्सैन्यसंमर्दभवोरुदुःखान्मुहुर्मुहुः पूत्कुरुतेऽयमद्रिः ॥ ५० ॥ कृतार्थीकृतार्थीहित त्वा हितत्वात्सदानं सदा नन्दिनं वादिनं वा । विभालम्बिभालं सुधर्मा सुधर्मापितख्यापितख्याति सा नौति सानौ ॥ ५९॥ प्राभाकरीरिति गिरो विनिशम्य सम्य देवेऽपि तां परिषदं प्रति दत्तनेत्रे । Acharya Shri Kailassagarsuri Gyanmandir एकोऽवतीर्य शिखरादथ किंनराणा मिन्द्रः प्रणम्य विनयाज्जिनमित्यवादीत् ॥ ५२ ॥ दिक्सैव पुण्यजननी विषयः स धन्यः सेव्यानि तानि नगपत्तनकाननानि । यान्यर्हता भगवता भवता कथंचि - दध्यासितान्यपरमस्ति किमत्र तीर्थम् ॥ ५३ ॥ भव्यस्तवस्याद्यमलंकृतीनामनर्घ रत्नत्रयमाश्रितोऽपि । भव्य स्तवस्याद्यमलं कृतीनां प्राप्याङ्क्षिपङ्केरुहयोः क्षणेन ॥ ५४ ॥ अत्र प्रचारो न विल्लवानां विपलवानां यदि वा तरूणाम् । आवासमस्मद्गृहसंनिधाने हसन्निधानेशपुरीं ददातु ॥ ५५ ॥ कुशोपरुद्धां द्रुतमालपल्लवां वरीप्सरोभिर्महितामकल्मषाम् | नृपेषु मस्त्वमिहोररीकुरु प्रसीद सीतामिव काननस्थलीम् ॥ ९६ ॥ १. सामोद्भवा हस्तिनः २. पूत्करणमार्तव्याहरणमिति नलचम्पूटीका. ३. अर्थीकृताश्च तेऽर्थिनोऽर्थीकृतार्थिनः कृतमर्थीकृतार्थिनामीहितं येन तत्संबोधनम् त्वा त्वाम्. विभालम्बी सप्रभो भालो यस्य सुधर्मा देवसभा. शोभनधर्मेणापिता प्रापिता सती ख्यापिता प्रकटीकृता ख्यातिः कीर्तिर्यत्र भवनकर्मणि तत्तथाभूतम् नौति स्तौति. ४. विपदंशानाम् ५. विगतकिसलयानाम्. ६. कुशैस्तृणविशेषैः; (पक्षे ) तन्नाम्ना पुत्रेण. ७. दु-तमालपल्लवाम्; (पक्षे) द्रुतं-आलपत्-लवाम्. लवोsपि सीतायाः पुत्रः. ८. अप्सरसो देवाङ्गनाः; (पक्षे ) अद्भिर्युक्तानि सरांसि ९ रमणीयः; (पक्षे ) दाशरथिः . For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy